पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ८ ९ श्रीमहाल्मीकिरामायणे अयोध्याकाण्डे संप्रदृष्टजनाकीर्णा प्रपोशामिनाविताम् । प्रहाष्टवरहस्यवां संमणपिक्गोमम् ।। प्रष्टमुदितैः पौररुच्छ्रितध्वजमालिनीम् । अयोध्यां मन्थरा रष्टा परं विस्मयमागता ।। ६ सा हर्षोकुलनयनां पाण्डरक्षौमवासिनीम् । अविदूरे स्थितां दृष्ट्रा धात्री पप्रच्छ मन्थरा ।। उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती । राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥ अतिमात्रप्रहर्षोऽयं कि जनस्य च शंस मे । कारयिष्यति किं वापि संप्रदृष्टो महीपतिः ।। विदीर्यमाणा हर्षेण धात्री परमया मुदा । आचचक्षेऽय कुब्जायै भूयसी राघवे श्रियम् ।। १० श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् । राजा दशरथो राममभिषेचयितानघम् ॥ ११ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्पिता । कैलासशिखराकारात् प्रासादादवरोहत ।। १२ सा दयमाना कोपेन मन्थरा पापदर्शिनी । शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ।। १३ उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते । उपप्लुतमघौधेन किमात्मानं न बुध्यसे । अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे । चलं हि तव सौभाग्य नद्याः स्रोत इवोष्मगे ।। १५ एवमुक्ता तु कैकेयी रुष्टया परुषं वचः । कुब्जया पापदर्शिन्या विषादमगमत् परम् ॥ कैकेयी त्वबवीत कुब्जा कश्चित् क्षेमं न मन्थरे । विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ।।१७ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् । उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ।। १८ सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी । विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ १९ अक्षय्यं सुमहदेवि प्रवृत्तं त्वद्विनाशनम् । रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ।। साम्यगाघे भये मना दुःखशोकसमन्विता । दह्यमानानलेनेव त्वद्धिसार्थमिहागता ॥ तब दुःखेन कैकेय मम दुःखं महद्भवेत् । त्ववृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ।। नराधिपकुले जाता महिषी त्वं महीपतेः । उपत्वं राजधर्माणां कथं देवि न बुध्यसे ।। २३ धर्मवादी शठो भर्ता लक्ष्णवादी च दारुणः । शुद्धभावे न जानीषे तेनैवमतिसंधिता ।। अस्थितं प्रयुानस्त्वयि सान्स्वमनर्थकम । अर्थे वाद्य ते भर्ता कौसल्या योजयिष्यति ।। अपवास स दुष्टात्मा भरत तव बन्धुषु । काल्ये स्थापयिता रामं राज्ये निहतकण्टके । २६ शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया । अशीविष इवान बाले परिहतस्त्वया ।। यथा हि कुर्यात् सो वा शत्रुर्वा प्रत्युपेक्षितः । राज्ञा पशरथेनाद्य सपुत्रा त्वं तथा कृता ।। पापेनानृतसान्त्वेन बाले नित्यमुखोचिते । रामं स्थापयवा राज्ये सानुबन्धा हता ससि ।। २९ सा प्राप्तकालं कैकेयि क्षिप्रं र हितं तव । त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ ३० मन्याचा वचः श्रुत्वा शयनात् सा शुभानना । उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखेव शारदी। ३१ अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता । एकमाभरणं तस्यै कुजायै प्रददौ शुभम् ॥ २२ २२ २४ २५ २७ २८ 1. समिट मुभमापारेन वातन्त्रविमियः, बहिराकारमात्रेण सौम्यश्च यः महाराजा,