पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चसप्ततितमः सर्गः

कैलासमिव दुर्धर्ष कालाग्निमिव दुःसहम् । ज्वलन्तमिव तेजोभिर्दुनिरीक्ष्यं पृथग्जनै:।। १९ स्कन्धे चासज्ज्य परशुं धनुर्विद्युद्गणोपमम् । प्रगृह्म शरमुख्यं च त्रिपुरग्घ्नं यथा हरम्॥ २० ते दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् । वसिष्टप्रमुखाः सर्वे जपहोमपरायणाः ॥ २१ संगता मुनयः सर्वे संजजल्पुरथो मिथः । कश्चित् पितृवधामर्षी क्षत्त्रं नोत्सादयिष्यति ।। २२ पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः । क्षत्त्रस्योत्सादनं भूयो न खल्वस्य चिकीर्पिनम् ॥ २३ एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् । ऋषयो राम रामेति वचो मधुरमब्रुवन् ।| २४ प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् । रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ।। २५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां

       बालकाण्डे जामदग्न्याभियोगो नाम चतुःसप्ततितमः सर्गः
     
                       पञ्चसप्ततितमः सर्गः                      
                        वैष्णवधनुःप्रशंसा 

राम दाशरथे वीर वीर्य ते श्रूयतेऽद्भुतम् । धनुषो भेदनं चैव निखिलेन मया श्रुतम्|| १ तदद्भुतमचिन्त्यं च भेदनं धनुपस्न्वया| तत्छ्रुत्वाहमनुप्राप्तो धनुर्ग्र्ह्यापरं शुभम् ।। २ तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः । पूरयस्व शरेणेव स्वबलं दर्शयन्व मे ।। ३ नदिदं ते बलं हटा धनुपोऽन्य प्रपूरणे । द्वन्द्वयुद्धं प्रदास्यामि वीर्यलाध्यमहं तव ॥ ४ तम्य नद्ववचनं श्रुत्वा गजा दशरथस्तदा । विषण्णवदनो दीनः प्राञ्जलिवाक्यमब्रवीत् ।। ५ क्षत्नरोपान प्रशान्तस्त्वं ब्राह्मणश्च महायशाः । बालानां मम पुत्राणामभयं दातुमर्हसि ।। ६ भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् । सहस्राक्षे प्रतिज्नाय शस्त्रं निक्षितवानसि॥ ७ स न्वं धर्मपरो भून्या काश्यपाय वसुंधरम् । दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ।। ८ मम सर्वविनाशाय संप्राप्तस्त्वं महामुने । न चैकस्मिन् हते रामे सर्वे जीवामहे वयम्॥ ९ ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवन् । अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ।। १० इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते । दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ ११ अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे । त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ।। १२ इदं द्वितीयं दुर्धर्ष विष्णोर्दत्तं सुरोत्तमैः । तदिदं वैष्णवं राम धनुः परपुरंजयम् ।। १३ समानसारं काकुत्स्थ रौद्रेण धनुपात्विदम्।तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्॥ १४ शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया । अभिप्रायं तु विज्ञाय देवतानां पितामहः ।। विरोधं जनयामाम तयोः मत्त्वपरीक्षया । विरोधे च महद्युद्धमभवद्रोमहर्षनम् ॥ १६

१. आसाद्य. प्र. वैन सशय: ||इति ख २. सर्वक्षत्र. प्र. ४ प्रक्षिप्त प्र. ३. अस्थानन्तरम् -भीतो। यदि धनुस्त्यक्त्वा ५. इदमर्थम् क. नास्ति । निर्जितोऽस्मीति वा वद । अन्यथा द्वन्द्वयुद्ध मे दाता ल ६. इदमर्धम् ख, नास्ति ।