पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे १ २ ३ जनकस्य वचः श्रुत्वा पाणीन पाणिभिरस्पृशन् । चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः॥ ३५ अग्निं प्रदक्षिणं कृत्वा वेदि राजानमेव च । ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ॥ ३६ यथोक्तन तदा चक्रुर्विवाहं विधिपूर्वकम् । काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिपु' ।। पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा । दिव्यदुन्दुभिनि? धैर्गीतबादिवनिःस्वनैः ॥ ३८ ननृतुश्चाप्सर सङ्घा गन्धर्वाश्च जगुः कलम । विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥ ३९ ईदृशे वर्तमाने तु तूर्योधुष्टनिनादिते । त्रिरमि ते परिक्रम्य अहुर्भार्या महौजसः ।। अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दनाः । राजाप्यनुययौ पश्यन सर्षिसङ्घः सबान्धवः ।। ४१ इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां बालकाण्डे दशरथपुत्रोदाहो नाम त्रिसप्ततितमः सर्ग: चतुःसप्ततितमः सर्गः जामदग्न्याभियोगः अथ राज्यां व्यतीतायां विश्वामित्रो महामुनिः । आपृच्छय तौ च राजानौ जगामोत्तरपर्वतम ।। आशीभिः पूर्गयत्वा च कुमारांश्च सराघवान् । विश्वामित्रे गते गजा वैदेहं मिथिलाधिपम ।। आपृच्छयाथ जगामाशु राजा दशरथः पुरीम । गच्छन्तं तं तु राजानमन्वगच्छनराधिपः ।। अथ गजा विदेहानां ददौ कन्याधनं बहु । गवां शतमहस्राणि बहूनि मिथिलेश्वरः ।। कम्बलानां च मुख्यानां श्रीमकोटथम्बराणि च । हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम ॥ ५ ददौ कन्यापिता तासां दासीदासमनुत्तमम । हिरण्यस्य सुवर्णस्य मुक्तानां विद्रमस्य च ॥ ददौ परममंदृष्टः कन्याधनमनुत्तमम् । दत्त्वा बहुधनं गजा समनुज्ञाप्य पार्थिवम ।। प्रविवेश स्वनिलयं मिथिन् मिथिलेश्वरः । राजाप्ययोध्याधिपतिः मह पुत्रैर्महात्मभिः ।। ऋपीन मान पुरस्कृत्य जगाम सबलानुगः । गच्छन्तं तं नरव्याघ्रं सर्पिमचं सराघवम ॥९ घोराः स्म पक्षिणो वाचो व्याहन्ति समन्ततः । भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्।।१० सान दृष्टा गजशार्दूलो वसिष्ठं पर्यपृच्छत । असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः॥ ११ किमिदं हृदयोन्कम्पि मनो मम विषीदति । राशो दशरथस्यैतच्छुत्वा वाक्यं महानृषिः ।। उवाच मधुरां वाणी श्रृयतामस्य यत् फलम । उपस्थितं भयं घोरं दिव्यं पनिमुखाटच्युतम ।। १३ मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम । तेपां संवदतां तत्र वायुः प्रादुर्बभूव है। १४ कम्पयन मेदिनी सा पानयंश्च महाद्रुमान । तमसा संवृतः सूर्यः सर्वा न प्रबमुर्दिनः ।। भस्मना चावृतं सर्व संमूढमिय तलम । वसिष्ठ ऋषयश्चान्य राजा च समुतस्तदा १६ ससंज्ञा इव तत्रासन सर्वमन्यद्विचेतनम । तस्मिंस्तमसि घोरे तु भरमच्छन्नेव सा चमूः ।। ददर्श भीमसंकाशं जटामण्डलधारिणम् । भार्गवं जामदग्न्यं तं राजराजविमर्दिनम् ।। ४ ६ ८ ३. दूमान् शुभान्. झ. १. इदमर्थम् क. नास्ति । २. आपृष्ठाव .. म.