पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विसप्ततितमः सर्गः. ९ ७ ४ ५ ६ ८ ९ तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः । प्रथमो जनको राजा जनकादप्युदावसुः ।। उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः । नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः ।। सुकेतोरपि धर्मात्मा देवरातो महाबलः । देवरातस्य राजर्षवृहद्रथ इति श्रुतः ।। वृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान् । महावीरस्य धृतिमान सुधृतिः मयविक्रमः ।। सुधृतेरपि धर्मात्मा धृष्टकेतुः मुधार्मिकः । धृष्टकेतोस्तु राजर्हर्यश्व इति विश्रुतः ।। हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः । प्रतीन्धकस्य धर्मात्मा राजा कीर्तिग्थः मुतः।। पुत्रः कीर्तिरथस्यापि देवमीढ इति श्रुतः । देवमीढस्य विबुधो विबुधस्य महीध्रकः ।। महोधकसुतो राजा कीर्तिरातो महाबलः । कीर्तिरातस्य राजर्षमहारोमा व्यजायत । ११ महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत । स्वर्णरोम्णस्तु राजर्हस्वरोमा व्यजायत ।। १२ तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः । ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ १३ मां तु ज्येष्ठं पिता राज्ये मोऽभिपिच्य नराधिपः । कुझध्वज समावेश्य भारं मयि वनं गतः ।। १४ वृद्ध पितरि स्वाते धर्मण धुरमावहन । भ्रातरं देवसंकाशं स्नेहान् पश्यन कुशध्वजम् ॥ १५ कचित्त्वथ कालस्य सांकाश्यादागतः पुरात् । सुधन्वा वीर्यवान राजा मिथिलामवरोधकः ॥ १६ म च मे प्रेषयामास शैवं धनुग्नुत्तमम । सीता कन्या च पद्माक्षी मां वै दीयतामिति ॥ १७ तस्याप्रदानाद्ब्रह्मपैयुद्धमासीन्सया सह । स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ २८ निहन्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम । सांकाइये भ्रातरं वीरमभ्यापरवं कुशध्वजम् ॥ १९ कनीयानंप में भ्राता अहं ज्येष्ठो महामुने । ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ।। सीनां रामाय भद्रं ते मिलां लक्ष्मणाय च । वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम ॥ २१ द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः । रामलक्ष्मणयो राजन गोदानं कारयस्व ह ॥ २२ पितृकार्य च भद्रं ते तनो वैवाहिकं कुरु । मघा ह्यद्य महाबाहो तृतीय दिवसे विभो ॥ २३ फल्गुन्यामुत्तरे राजन्तस्मिन् वैवाहिकं कुरु । रामलक्ष्मणयोरर्थ दान कार्य सुखोदयम ।। इत्या श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहासकायां संहितायां बालकाण्डे कन्यादानप्रतिश्रवो नाम एकसप्ततितमः सर्गः २० १ द्विसप्ततितमः सर्गः गोदानमङ्गलम् तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः । उवाच वचनं वीरं वसिष्ठसहितो नृपम् ।। अचिन्त्यान्यप्रमेयानि कुलानि नरपुंगव । इक्ष्वाकूणां विदेहानां नेषां तुल्योऽस्ति कश्चन ।। सदृशो धर्मसंबन्धः सहशो रूपसंपदा । रामलक्ष्मणयो राजन सीता चोर्मिलया सह ॥ वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम । भ्राता यवीयान धर्मज्ञ एष राजा कुशध्वजः || अस्य धर्मात्मनो राजन् रूपेणाप्रतिम भुवि । सुताद्वय नरश्रेष्ठ पत्न्यथ वरयामहे ।। २ ३ १. मिथिला येन निर्मिता ब. २. अस्थानन्तरम्--ददामि परममौतो बच्ची से मुनिपर-ति ब. 13