पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चकारावाहनं तत्र भागार्थं सर्वदेवताः । नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः ॥ ११
ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः । स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदब्रवीत् ।। १२
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर । एष त्वां सशरीरेण नयामि स्वर्गमोजसा ।। १३
दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप । स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ।। १४
राजन् स्वतेजसा तस्य सारीरो दिवं व्रज । उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ।। १५
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा । देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ।। १६
सह सर्वैः सुरगणैरिदं वचनमब्रवीत् । त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ॥ १७
गुरुशापहतो मूढ पत भूमिमवाक्शिराः । एवमुक्तो महेन्द्रण त्रिशङ्कुरपतत् पुनः ।। १८
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् । तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ।। १९
कोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् । ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ।। २०
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः । नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः ।। २१
दक्षिणां दिशमास्थाय मुनिमध्ये महातपाः । सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ।। २२
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः । देवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ २३
ततः परमसंभ्रान्ताः सर्षिसङ्घाः सुरासुराः । विश्वामित्रं महात्मानमूचुः सानुनयं वचः ।। २४
अयं राजा महाभाग गुरुशापपरिक्षतः । सशरीरो दिवं यातुं नार्हत्येव तपोधन ।।
२५
तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः । अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ।। २६
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः । आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्महे ।। २७
स्वर्गोऽस्तु सशरीरम्य त्रिशङ्कोरम्य शाश्वतः । नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ।। २८
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः । मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ।। २९
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम् । एवं भवतु भद्रं ते निहन्त्वेतानि सर्वशः ।। ३०
गगने तान्यनेकानि वैश्वानरपथाद् बहिः । नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन् ।। ३१
अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः । अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ।। ३२
कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं तथा । विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ।। ३३
ऋषिमध्ये महातेजा बाढमित्येव देवताः । ततो देवा महात्मानो मुनयश्च तपोधनाः ।। ३४
जग्मुर्यथागतं सर्व यज्ञस्यान्ते नरोत्तम ।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे त्रिशङ्कुस्वर्गो नाम षष्टितमः सर्गः