पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः । एको हि राजा काकुत्स्थ जगाम परमात्मवान् ।। १२
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् । विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ॥ १३
चण्डालरूपिणं राम मुनिः कारुण्यमागतः । कारुण्यात् स महातेजा वाक्यं परमधार्मिकः ॥ १४
इदं जगाद भद्रं ते राजानं घोररूपिणम् । किमागमनकार्यं ते राजपुत्र महाबल ।। १५
अयोध्याधिपते वीर शापाच्चण्डालतां गतः । अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः ॥ १६
अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् । प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ॥१७
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः । सशरीरो दिवं यायामिति मे सौम्यदर्शन ॥ १८
मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् । अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।। १९
कृच्छेष्वपि गतः सौम्य क्षत्रधर्मण ते शपे। यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ॥ २०
गुरवश्च महात्मानः शीलवृत्तेन तोपिलाः । धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ।। २१
परितोषं न गच्छन्ति गुरवो मुनिपुंगव । दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥ २२
दैवेनाक्रम्यते सर्व दैवं हि परमा गतिः । तस्य में परमार्तस्य प्रसादमभिकाङ्क्षतः ।। २३
कर्तुमर्हसि भद्रं ते देवोपहतकर्मणः । नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति में ॥ २४
दैवं पुरुषकारेण निवर्तयितुमर्हसि ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्ंविशतिसहस्रिकायां संहितायां
बालकाण्डे त्रिशङ्कुशापो नाम अष्टपञ्चाशः सर्ग:

एकोनषष्टितमः सर्गः
वासिष्ठशापः
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः । अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् ।। १
ऐक्ष्वाक स्वागतं तेऽस्तु जानामि त्वां सुधार्मिकम् । शरणं ते भविष्यामि मा भैषीर्नृपपुंगव ।। २
अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः । यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ।। ३
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते । अनेन सह रूपेण सशरीरो गमिष्यसि ।। ४
हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप । यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ ५
एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् । व्यादिदेश महाप्राज्ञान् यज्ञसंभारकारणात् ।। ६
सर्वाशिष्यान् समाहूय वाक्यमेतदुवाच ह । सर्वानृषिगणान् वत्सा आनयध्वं ममाज्ञया ॥ ७
सशिष्यसुदृदश्चैव सविजः "मुबहुश्रुतान । यदन्या वचनं बृयान्मद्वाक्ययलचोदितः ।। ८
तत् सर्वमखिलनोक्तं ममाख्येयमनादृतम् । तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया॥ ९