पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपश्चाशः सर्गः. ८१ ततस्तत्कर्मसिद्धयर्थं पुत्रांस्तस्य गतो नृपः । वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे।। १४ त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् । वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः ।। १५ सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् । अभिवाद्यानुपूर्व्येण ह्रिया किंचिदवाङ्मुखः ।। १६ अब्रवीत् सुमहाभागान् सर्वानेव कृताञ्जलिः । शरणं वः प्रपद्येऽहं शरण्याञ्शरणागतः ।। १७ प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना । यष्टुकामो महायज्ञे तदनुज्ञातुमर्हथ । १८ गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रमादये । शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् ॥ १९ ते मां भवन्तः सिद्धयर्थं याजयन्तु समाहिताः । सशरीरो यथाहं हि देवलोकमवाप्नुयाम् ॥ २० प्रत्याग्व्यातो वसिष्ठेन गतिमन्यां तपोधनाः । गुरुपुत्रानृते सर्वान्नाहं पश्यामि कांचन ।। २१ इक्ष्वाकूणां हि सर्वषां पुरोधाः परमा गतिः । पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान् ।। २२ तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ।। इत्यार्षे श्रीमन्द्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे त्रिशङ्कुयाजनप्रार्थना नाम सप्तपञ्चाशः सर्गः

अष्टपञ्चाशः सर्गः त्रिशङ्कुशापः मना-सर्वचनं श्रधा घसमन्वितम् । पिपुत्रानं राम राजानमिदमब्रवीत् ।। १ अत्याम्न्यानो हि दु युद्ध गुरुणा मत्यवादिना । तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ।। इन्वाकृणा हि मपां पुरोधाः परमा गतिः । न चातिक्रमितुं शक्यं वचनं सत्यवादिनः । अशवामान चांबाच वमिष्टा भगवानृषिः । तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ।। बालिशस्त्वं नरश्रेष्ठ गम्थनां वपुरं पुनः । याजन भगवाञ्झक्तस्त्रैलोक्यस्यापि पार्थिव ।। अवमानं च तत्कर्नु गम्य शल्यामहे कथम् । तेषां तद्वचनं श्रुत्वा क्रोधपर्याफुलाक्षरम् ।। स राजा पुन वैतानिदं वचनमत्रवीत । प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।। अन्यां गतिं गमियामि स्वस्ति वोऽस्तु तपोधनाः । ऋषिपुत्रास्तु तच्छुत्वा वाक्यं घोराभिसंहितम् ।।८ शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि । पवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ।। अथ राभ्यां व्यतीतायां गजा चण्डालतां गतः । नीलवनधरो नीलः परुषो ध्वस्तमूर्धजः ॥ चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् । तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम् ।।११

१. इदं पचम् ग. नास्ति। पुत्रस्य मार्पतम् । प्राविशत् स्वपुरं राजा चिन्तयामास विश रादिः कृतालिः श्त्यांना दु:खिनः।।–ति च. भागः . नारित । त्यज्य ३. अस्यानन्तरम् -सया धारसंकाशमृषि- 11