पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तदागच्छ महातेज आश्रमं पुण्यकर्मणः । तारयैनां महाभागामहल्यां देवरूपिणीम् ॥ १३
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः । विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥ १४
ददर्श च महाभागां तपसा द्योतितप्रभाम् । लोकैरपि समागम्य दुर्निरीक्षां सुरासुरैः॥ १५
प्रयत्नानिर्मितां धात्रा दिव्यां मायामयीमिव । स तुषाराधृतां साभ्रां पूर्णचन्द्रप्रभामिव ॥ १६
धूमेनापि परीताङ्गीं दीप्तामग्निशिखामिव । मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ॥ १७
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह । त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् ॥ १८
शाफ्स्यान्तमुपागम्य तेषां दर्शनमागता । राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा ॥ १९
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ । पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिता ॥ २०
प्रतिजग्राह काफुस्थो विधिघ्र्ष्टेन कर्मणा । पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः ॥ २१
गन्धर्वाप्सरसां चापि महानासीत् समुत्सवः । साधु साध्विति देवास्तामहल्यां समपूजयन् ॥ २२
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् । गौतमोऽपि महातेजा अहल्यासहितः सुखी ॥
रामं संपूज्य विधिवत्तपस्तेपे महातपाः । रामोऽपि परमां पूजां गौतमस्य महामुनेः ॥
सकाशाद्विधिवत् प्राप्य जगाम मिथिलां ततः॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे अहल्याशापमोक्षो नाम एकोनपञ्चाशः सर्ग:


पञ्चाशः सर्गः

जनकसमागमः

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह । विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥ १
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः । साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥ २
बहूनीह सहस्राणि नानादेशनिवासिनाम । ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥ ३
ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः । देश विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् ॥ ४
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः । निवेशमकरोद्देशे विविक्ते सलिलान्विते ॥ ५
विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा । शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् ॥ ६
प्रत्युज्जगाम सहसा विनयेन समन्वितः । ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ॥ ७
विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् । प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ॥ ८
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् । स तांश्चापि मुनीन् पृष्टा सोपाध्यायपुरोधसः ॥ ९
यथान्यायं ततः सर्वैः समागच्छत् प्रहश्वत् । अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥ १०
भासने भगवानास्तां सहैभिर्मुनिपुंगवैः । जनकस्य वचः श्रुत्वा निषसाद महामुनिः॥ ११