पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशोत्तरशततमः सर्गः २० २१ २२ सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः । सर्व पुष्टं प्रमुदितं सुसंपूर्णमनोरथम् ॥ १५ साधु साध्विति तैर्देवैत्रिदिवं गतकल्मषम् । अथ विष्णुमहातेजाः पितामहमुवाच ह ।। एषां लोकं जनौघानां दातुमर्हसि सुत्रत । इमे हि सर्व स्नेहान्मामनुयाता मनस्विनः ।। भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते । तच्छ्रुन्या विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ॥१८ लोकान् सान्तानिकान्नाम यास्यन्तीमे समागताः । यच तिर्यग्गतं किंचित्त्वामेवमनुचिन्तयत् ।। १९ प्रणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति । सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे । वानराश्च स्वको योनिमृक्षाश्चैव तथा ययुः । येभ्यो विनिःसृताः सर्व सुरेभ्यः सुरसंभवाः ॥ तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम । पश्यतां सर्वदेवानां वान पितॄन् प्रतिपेदिरे ॥ तथोक्तवति देवेशे गोप्रतारमुपागताः । भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ।। २३ अवगाह्य जलं यो यः प्राणी हासीत् प्रहृष्टवत् । मानुषं देहमुन्मृज्य विमानं सोऽध्यरोहन ।। तिर्यग्योनिगतानां च शतानि सरयूजलम् । संप्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ॥ दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् । गत्वा तु सरयूतोयं स्थावराणि चराणि च ॥ २६ प्राप्य तत्तोयविक्लंद देवलोकमुपागमन् । तस्मिन् येऽपि समापन्ना ऋक्षवानरराक्षमाः ।। तेऽपि स्वर्ग प्रविविशुदेहान्निक्षिप्य चाम्भसि । ततः समागतान् सर्वान स्थाप्य लोकगुरुर्दिवि ।। २८ जगाम त्रिदशैः साध सदा इष्टैर्दिवं महत् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे सहानुगश्रीरामस्वर्गारोहो नाम दशोत्तरशततमः सर्गः २४ २५ २७ १ २ ३ एकादशोत्तरशततमः सर्गः श्रीमद्रामायणफलश्रुतिः एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् । रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम् ॥ नतः प्रतिष्ठितो विष्णुः स्वर्गलोके यथापुरम् । येन व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम् ।। ततो देवाः सगन्धर्चाः सिद्धाश्च परमर्षयः । नित्यं शृण्वन्ति संतुष्टा दिव्यं रामायणं दिवि ॥ इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् । रामायणं वेदसमं श्राद्धेषु श्रावयेवुधः ॥' अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमष्यस्य यः पठेत् ।। पापान्यपि च यः कुर्यादहन्यहनि मानकः । पठत्येकमपि श्लोकं पापात् स परिमुच्यते ॥ वाचकाय च दातव्यं वस्त्र धेर्नुहिरण्यकम् । वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥ एतदाल्यानमायुष्यं पठन् रामायणं नरः । सपुत्रपौत्रो लोकेऽस्मिन् प्रेत्य चेह महीयते ॥ रामायणं गोविसर्गे मध्याहे वा समाहितः । साया वापराहे च वाचयन्नावसीदति ।। ४ ५ ६ ७ ८ ९ १. गायश्याब स्वरूप तद्रामायममनुत्सम इति ति. २. धेनुं प्र. भषिकं प्रविसम्। च. च.