पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०९२ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे २ ३ ५ ७ ८ ९ अष्टोत्तरशततमः सर्गः विभीषणाद्यादेशः ते दूता रामवाक्येन चोदिता लघुविक्रमाः । प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं च नाध्वनि ।। १ ते तु त्रिभिरहोरात्रैः संप्राप्य मधुरामथ । शत्रुप्राय यथातत्त्वमाचख्युः सर्वमेव तत् ।। लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च । पुत्रयोरभिषेकं च पौरानुगमनं तथा । कुशस्य नगरी रम्या विध्यपर्वतरोधसि । कुशावतीति नाम्ना सा कृता रामेण धीमता ॥ श्रावस्तीति पुरी रम्या श्राविता च लयस्य च । अयोध्या विजनां कृत्वा राघवो भरतस्तथा ॥ स्वर्गस्य गमनोद्योगं कृतवन्तौ महारयो । एवं सर्प निवेशाशु शत्रुघ्राय महात्मने । ६ विरेमुस्ते ततो दूतास्त्वर राजेति चानुवन् । तच्छ्रुत्वा घोरसंकाशं फुलक्षयमुपस्थितम् ।। प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् । तेषां सर्व यथावृत्तमब्रवीद्रघुनन्दनः । आत्मनश्च विपर्यास भविष्यं भ्रातृभिः सह । ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नगधिपः । सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् । द्विधा कृत्वा तु तां सेनां माधुरी पुत्रयोर्द्वयोः ।। १० धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः । मुम्राहं मधुगयां च वैदिशे शघातिनम् ।। ययौ स्थाप्य तदायोध्या रथेनैकेन राघवः । स ददर्श महात्मानं ज्वलन्तमित्र पावकम् ।। १२ सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः । सोऽभिवाद्य नतो रामं प्राञ्जलिः प्रयतेन्द्रियः ।। १३ उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् । कृत्वाभिषेकं सुतयोयुक्त राघवनन्दन ।। १४ तवानुगमने राजन् विद्धि मां कृतनिश्चयम् । न चान्यदपि वक्तव्यमतो वीर न शासनम् ॥ १५ विलोक्यमानमिच्छामि त्वद्विधेन विशेषतः । तस्य तां बुद्धिमट्टीवां विज्ञाय रघुनन्दनः । १६ बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह । नस्य वाक्यस्य वाक्यान्ते वानराः कामपिणः ।। १७ ऋक्षराक्षससहाश्व समापेतुरनकशः । सुग्रीवं ते पुरस्कृत्य मर्व एव समागताः ।। १८ ते रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम । देवपुत्रा ऋपिस्ता गन्धर्वाणां सुतास्तथा । १९ रामक्षयं विदित्वा ते सर्व एव ममागताः । ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।। तबानुगमने राजन् संप्राप्ताः कृतनिश्चयाः । यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम ।। २१ यमदण्डमियोधम्य त्वया स्म विनिपातिताः । नैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।। २२ एतस्मिन्नन्तरे राम मुग्रीवोऽपि महाबलः । प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। २३ अभिषिच्याङ्गदं वीरमागतोऽस्मि नरेश्वर । तथानुगमने राजन् विद्धि मां कृतनिश्चयम् ।। तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः । वानरेन्द्रमथोत्राच मैत्रं तस्यानुचिन्तयन् ।। २५ सखे शृणुष्व सुप्रीव न त्वयाई विनाकृतः । गच्छेयं देवलोकं वा परमं वा पदं महत् ॥ २६ विभीषणमथोवाच राक्षसन्द्रं महायशाः । यावत् प्रजा धरिष्यन्ति तावत्वं वै विभीषण ॥ १. इदमर्थ ति. नासि. ति. २. दम सि. न दृश्यते । २७ तस्य तरचनामत्यारभ्य एतदन्त नास्ति।