पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०९० श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे साधु रामेति संभाष्य स्वमाश्रममुपागमत । तस्मिन् गते मुनिवरे खाश्रमं लक्ष्मणाप्रजः॥ १६ संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् । दुःखेन च सुसंतमः स्मृत्वा तद्धोरदर्शनम् ॥ १७ अवाङ्मुखो दीनमना व्याहतुं न शशाक ह । सतो बुद्धथा विनिश्चित्य कालवाक्यानि राधवः॥१८ नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ।। इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विशतिसहलिकायां संहितायाम् उत्तरकाण्डे दुर्वासोऽभिगमो नाम पञ्चोत्तरशततमः सर्गः षडुत्तरशततमः सर्गः २ ५ ६ ८ लक्ष्मणपरित्यागः अपामुखमयो दीनं दृष्ट्वा सोममिवाप्लुतम् । राघवं लक्ष्मणो वाक्यं दृष्टो मधुरमब्रवीत् ।। १ न संतापं महाबाहो मदर्थ कर्तुमर्हसि । पूर्वनिर्माणबद्धा हि कालस्य गतिरिदृशी ॥ जहि मां सौम्य विसन्धं प्रतिज्ञां परिपालय । हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ।। ३ यदि प्रोतिर्महाराज यद्यानुप्राह्यता मयि । जहि मां निर्विशङ्करत्वं धर्म वर्धय राघव ।। लक्ष्मणेन तथोक्तस्तु रामः प्रचलिनेन्द्रियः । मन्त्रिणः समुपानीय तथैव च पुरोधमम ॥ अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः । दुर्वासोऽभिगमं चैव प्रतिझां तापसस्य च ॥ तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासन । वसिष्टन्तु महातेजा वाक्यमेतदुवाच ह ।। दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम । लक्ष्मणेन वियोगश्च तव राम महायशः ॥ त्यजैन बलवान कालो मा प्रतिज्ञां वृथा कृथाः। विनष्टायां प्रतिज्ञायां धर्मोऽपि च लयं ब्रजेत् ।।९ ततो धर्म विनष्टे तु त्रैलोक्यं सचराचरम् । सदेवर्षिगणं सर्व विनश्येत्तु न संशयः ।। स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनान् । लक्ष्मणेन विना चाम जगत स्वस्थं कुरुप्व ह ॥ ११ तेषां तत् समवेतानां वाक्यं धर्मार्थमंहितम् । श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीन ॥ १२ विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः । त्यागो वधो वा विहितः साधूनां नृभयं समम् ।। १३ रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः । लक्ष्मणस्त्वरितं प्रायात् स्वगृहं न विवेश ह ।। १४ स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः । निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ।। १५ अनिश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः । देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंम्तदा ।। १६ अदृश्यं सर्वमनुजैः सशरीरं महाबलम् । प्रगृह्य लक्ष्मणं शक्ररित्रदिवं संविवेश ह ॥ ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः । दृष्ट्रा प्रमुदिताः सर्वेऽपूजयन समहर्षयः ।। १८ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम् उत्तरकाण्डे लक्ष्मणपरित्यागो नाम पडत्तरशततमः सर्गः ३. पूजयन्ति स्म राषवं ति, काका तिन दिन। २, पुरोषसः वि.