पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टनवतितमः सर्गः १०८३ १ २ ५ ६ ७ ८ अष्टनवतितमः सर्गः रामकोपोपशमः रसातलं प्रविष्टायां वैदेयां सर्ववानराः । चुक्रुशुः साधु साध्वीति मुनयो रामसंनिधौ ।। दण्डकाष्टमवष्टभ्य बाष्पच्याफुलितेक्षणः । अवाशिरा दीनमना रामो ह्यासीन् मुदुःखितः ।। स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् । क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ॥ ३ अभूतपूर्वं शोकं मे मनः स्पष्टुमिवेच्छति । पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ।। सादर्शनं पुरा सीता लङ्कां पारे महोदधेः । ततश्चापि मयानीता किं पुनर्वसुधातलात् ।। वसुधे देवि भवति सीता निर्यात्यतां मम । दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ।। कामं श्वश्रूममेव त्वं त्वत्सकाशाद्धि मैथिली । कर्षता हलहस्तेन जनकेनोद्धृता पुरा ।। तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे । पाताले नाकपृष्ठे वा वसेयं सहितस्तथा ।। आनय त्वं हि तां सीतां मत्तोऽहं मैथिलीकृते । न मे दास्यसि चेत् सीतां यथारूपां महीतले ।। ९ सपर्वतवनां कृत्स्नां विमिष्यामि ते स्थितिम् । नाशयिष्याम्यहं भूमि सर्वमापो भवत्विह ।। एवं ब्रुवाणे काकुत्स्थ क्रोधशोकसमन्विते । ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ।। ११ राम राम न संतापं कर्तुमर्हसि सुव्रत । स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ।। १२ न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् । इमं मुहूर्त दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ।। १३ सीता हि विमला साध्वी तव पूर्वपरायणा । नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ।। १४ स्वर्ग ते सङ्गमो भूयो भविात न संशयः । अस्यास्तु परिषन्मध्ये यब्रवीमि निबोध तत् ॥ १५ एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् । सर्व विस्तरतो राम व्याख्यास्यति न संशयः॥ १६ जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् । भविष्यदुत्तरं चेह सर्व वाल्मीकिना कृतम् ।। आदिकाव्यमिदं राम त्वयि सर्व प्रतिष्ठितम् । न ह्यन्योऽहंति कान्यानां यशोभाराघवाहते ।। १८ श्रुतं ते पूर्वमेतद्धि मया सर्व सुरैः सह । दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ।। १९ स त्वं पुरुषशार्दुल धर्मेण सुसमाहितः । शेष भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ।। उत्तरं नाम काव्यस्य शेषमत्र महायशः । तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥ २१ न खल्वन्येन काकुत्स्य श्रोतव्यमिदमुत्तमम् । परमम् ऋषिणा वीर त्वयैव रघुनन्दन ।। २२ एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः। जगाम त्रिदिवं देवो देवैः सह सबान्धवैः।। २३ ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः । ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ।। उत्तरं श्रोतुमनसो भविध्यं यश्च राघवे । ततो रामः शुभां वाणी देवदेवेने भाषिताम् ।। श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् । भगवश्रोतुमनस ऋषयो बामलौकिकाः ।। २६ भविष्यदुत्तरं यन्मे श्वोभूते संप्रवर्तताम् । एवं विनिश्चयं कृत्वा संप्रगृह्य कुशीलयो । २७ २० २४ २५ १, देवदेस्य ति.