पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ ८ सप्तनवतितमः सर्गः १०८१ नारदः पर्वतश्चैव गौतमश्च महायशाः । कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः॥ एते चान्ये च बहवो मुनयः संशितव्रताः । कौतूहलसमाविष्टाः सर्व एव समागताः ।। राक्षसाश्च महावीर्या वानराश्च महाबलाः । सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ।। क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः । नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ज्ञाननिष्ठाः कर्मनिष्टा योगनिष्टास्तथापरे । सीताशपथवीक्षार्थ सर्व एव समागताः। ९ तदा समागतं सर्वमश्मभूतमिवाचलम् । श्रुत्वा मुनिवरस्तूर्ण ससीतः समुपागमत् ।। १० तमृर्षिं पृष्ठतः सीता वन्वगच्छदवाङ्मुखी । कृताञ्जलिर्बाष्पगला कृत्वा राम मनोगतम् ।। ११ दृष्ट्वा श्रुतिमिवायान्ती ब्रह्माणमनुगामिनीम् । वाल्मीके: पृष्टतः सीतां साधुवादो महानभूत् ॥ १२ ततो हलहलाशब्दः सर्वपामेवमाबभौ । दुःखजन्मविशालेन शोकेनाकुलितात्मनाम ।। १३ साधु रामेति केचित्तु साधु सीतेति चापरे । उभावेव च तत्रान्य प्रेक्षकाः संप्रचुक्रुशुः ।। ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः । सीतासहायो वाल्मीकिरिति होवाच राघवम ।। इयं दाशरथे सीता मुत्रता धर्मचारिणी । अपवादात् परित्यक्ता ममाश्रमसमीपतः ॥ लोकापवादभीतस्य तव गम महाव्रत । प्रत्ययं दास्यते सीता तमनुज्ञातुमर्हसि ॥ इमौ तु जानकीपुत्रावुभौ च यमजातको । सुतौ तवैव दुर्धपौ सत्यमेतदवीमि ते ।। प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन । न स्मराम्यनृतं वायाममौ तु तव पुत्रको । १९ बहुवर्पसहस्राणि तपश्चर्या मया कृता । नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ।। २० मनसा कर्मणा वाचा भूतपूर्व न किल्बिपम् । तस्याहं फलमभामि अपापा यदि मैथिली ।। २१ अहं पञ्चसु भूतेषु मनष्षष्टषु राघव । विचिन्त्य सीता शुद्धति जग्राह वननिर्झरे । २२ इयं शुद्धसमाचारा अपापा पतिदेवता । लोकापवादमीतस्य प्रत्ययं तव दास्यति ।। २३ तस्मादिय नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा । लोकापवादकलुपीकृतचेतसा या त्यक्ता त्वया प्रियत विदितापि शुद्धा॥ इत्यार्षे श्रीमद्राभायणे वाल्मीकाये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम् उत्तरकाण्डे बाल्मीकिप्रत्ययदानं नाम षण्णवतितमः सर्गः २४ १ सप्तनवतितमः सर्गः सीतारसातलप्रवेशः वाल्मीकिनवमुक्तस्तु राघवः प्रत्यभाषत । प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ॥ एवमेतन्महाभाग यथा वदसि धर्मवित् । प्रत्ययस्तु मम ब्रह्मस्तव वाक्यैरकल्मषैः ॥ प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसंनिधौ । शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।। १. इदमध सि. नारिन २. दम ति. म दृश्यते. तस्याः फरूमुपाश्नीयाम् च. २ ३ 99. 136