पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुश्चत्वारिंशः सर्गः सागरोद्वारः

स गत्वा सागरं राजा गङ्गयानुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः।। १ भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ।। २ तारिता नरशार्दूल दिवं याताश्च देववत् । षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ।। ३ सागरस्य जलं लोके यावत् स्थास्यति पार्थिव । सगरस्यात्मजास्तावत् स्वर्गे स्थास्यन्ति देववत् ॥४ इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ।। ५ गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता॥ ६ पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥ ७ पूर्वकेण हि ते राजंस्तेनातियशसा तदा । धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः।। ८ तथैवांशुमता तात लोकेऽप्रतिमतेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥ ९ राजर्षिणा गुणवता महर्षिसमतेजसा । मत्तुल्यतपसा चैव क्षत्त्रधर्मे स्थितेन च ॥ १० दिलीपेन महाभाग तव पित्रातितेजसा । पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ । ११ सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तोऽसि परमं लोके यशः परमसंमतम् ।। १२ यञ्च गङ्गावतरणं त्वया कृतमरिंदम । अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ।। १३ प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ॥ १४ पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥ १५ इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः । यथागतं तथागच्छद्देवलोकं महायशाः।। १६ भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् । यथाक्रमं यथान्यायं सागराणां महायशाः।। १७ कृतोदकः शुची राजा स्वपुरं प्रविवेश ह । समृद्धार्थो रघुश्रेष्ठ स्वराज्यं प्रशशास ह ॥ १८ प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थों बभूव विगतज्वरः ॥ १९ एष ते राम गङ्गाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ।। २० धन्यं यशस्यमायुष्यं पुन्यं स्वर्ग्यमतीव च । यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ।। २१ प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च । इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् ।। २२ यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् । सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते।।२३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे सागरोद्धारो नाम चतुश्चत्वारिंशः सर्गः