पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिनतितमः सर्गः १०७७ ६ ७ उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् । सानुगानां नरश्रेष्ठो ब्यादिदेश महामतिः ॥ अन्नपानानि वखाणि सानुगानां महात्मनाम् । भरतः संददावाशु शत्रुघ्नसहितैस्तदा ।। वानराश्च महात्मानः सुग्रीवसहितास्तदा । विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ।। विभीषणश्व रक्षोभिर्बहुभिः नग्विभिर्वृतः । ऋषीणामुग्रतपसा पूजां चक्रे महात्मनाम् ।। एवं सुविहितो यहो हयमेधोऽभ्यवर्तत । लक्ष्मणेनामिगुप्ता च यचर्या प्रवर्तत ॥ ९ ईशं राजसिंहस्य यज्ञप्रवरमुत्तमम् । नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः ।। १० छन्दतो देहि देहीति यावत्तुष्यन्ति याचकाः । तावत् सर्वाणि दत्तानि ऋतुमध्ये महात्मनः ॥ विविधानि च गौडानि खाण्डवानि तथैव च । न निस्सृतं भवत्योष्ठावचनं यावदर्थिनाम् ॥ १२ तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत । न कश्चिन्मलिनस्तत्र दीनो वाघ्यथ कर्शितः ॥ तस्मिन् यज्ञवरे राज्ञो हृष्टपुष्टजनावृते । ये च तत्र महात्मानो मुनयश्चिरजीविनः ।। १४ नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन । यः कृत्यवान् सुवर्णेन सुवर्ण लभते स्म सः ॥ वित्तार्थी लभते वित्तं रक्षार्थी रत्नमेव च । रजतानां सुवर्णानामश्मनामथ वाससाम् ॥ १६ अनिशं दीयमानानां राशिः समुपदृश्यते । न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ॥ ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः । सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः || १८ वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् । ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ॥ संवत्सरमथो सायं वर्तते न च हीयते ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे हरचर्या नाम द्विनवतितमः सर्गः त्रिनवतितमः सर्गः वाल्मीकिसंदेशः वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकि निपुङ्गवः ॥ १ स दृष्ट्वा दिन्यसंकाशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाशुभान् ॥ २ शकटांश्च बहून् पूर्णान् फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयनविदूरतः ।। ३ आसीत् सुपूजितो राक्षा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत् परमात्मवान् ।। स शिष्यावनवीधृष्टो युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेयां परया मुदा ॥ ५ ऋषिवाटेषु पुण्येषु ब्राह्मणावसयेषु च । रध्यासु राजमार्गेषु पार्थिवानां गृहेषु च ।। ६ रामस्य भवनद्वारि यत्र कर्म प्रवर्तते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ इमानि च फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। ८ १. ई बारम पवम् ति. ३. पूजा बके महात्मनाम् ति. २. सहशत्रुनो नियुक्तो राजपूजने ति. ४. ई पचं ति. नोपलभ्यते ७