पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोननवतितमः सर्गः १०७३ न देवीषु न नागीषु नासुरीष्वप्सरःसु च । इष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ १४ सदृशीयं मम भवेद्यदि नान्यपरिग्रहः । इति बुद्धि समास्थाय जलात कूलमुपागमत् ॥ पाश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । शब्दापयत धर्मात्मा ताश्चन च ववन्दिरे ॥ १६ स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । किमर्थमागता चैव सर्वमाख्यात मा चिरम् ।। शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । श्रुत्वा स्त्रियश्च ताः सी ऊचुर्मधुरया गिरा ||१८ अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । अपतिः काननान्तेषु सहास्माभिश्वरत्यसौ ।। १९ तद्वाक्यमव्यक्तपदं तासां श्रीणां निशम्य च । विद्यामावर्तिनी पुण्यामावर्तयत स द्विजः।२० सोऽथ विदित्वा सकलं तस्य राज्ञो यथागतम् । सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ अत्र किंपुरुषीभूत्वा शैलरोधसि वत्स्यथ । आवासस्तु गिरावम्मिशीघ्रमेव विधीयताम् ।।२२ मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । स्त्रियः किंपुरुषान्नाम भर्तृन समुपलप्स्यथ । २३ तां श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः । उपासांचक्रिरे शैलं वचस्ता बहुलास्तदा ॥ २४ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे बुधसमागमो नाम अष्टाशीतितमः सर्ग: १ २ ५ एकोननवतितमः सर्गः पुरूरवोजननम् श्रुत्वा किंपुरुषोत्पत्ति लक्ष्मणो भरतस्तदा । आश्चर्यमिति चानामुभौ राम जनेश्वरम ॥ अथ रामः कथामेतां भूय एव महायशाः । कथयामास धर्मात्मा प्रजापतिसुतस्य वै ।। सर्वास्ता विद्रुता दृष्ट्वा किंनरी:षिसत्तमः । उवाच रूपसंपन्नां तां स्त्रियं प्रहमन्निव ॥ ३ सोमस्याएं सुदयितः सुतः सुरुचिरानने । भजस्त्र मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ ४ तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता । इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ अहं कामचरी सौम्य तवास्मि वशवर्तिनी। प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ६ तस्यास्तदभुतप्रख्यं श्रुत्वा हर्षमुपागतः । स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ बुधस्य माधवो मासस्तामिला रुचिराननाम् । गतो रमयतोऽत्यर्थ क्षणवत्तस्य कामिनः ॥ अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः । प्रजापतिसुत: श्रीमान्शयने प्रत्यबुध्यत ॥ सोऽपश्यत् सोमजं सत्र तपन्तं सलिलाशये । अवाएं निरालम्ब वं राजा प्रत्यभाषत ।।१० भगवन् पर्वतं दुर्ग प्रविष्टोऽस्मि सहानुगः । न तु पश्यामि तत् सैन्यं क नु ते मामका गताः। तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् । प्रत्युवाच शुभं वाक्यं सान्स्त्रयन् परया गिरा ॥ अश्मवर्षेण महता भूत्यास्ते विनिपातिताः । त्वं चाश्रमपदे सुप्तो बातवर्षभयादितः ।। १३ ७ ८ ९ महाप्रभं ति. 135