पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्ताशीतितमः सर्गः १०७१ इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा । परितोषमवाप दृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे ब्रह्महत्यातरणं नाम षडशीतितमः सर्गः २ ८ सप्ताशीतितमः सर्गः इलस्त्रीत्वप्राप्तिः तन्छुवा लक्ष्मणेनोक्त वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजाः प्रहसन् राघवो वचः ॥ १ एवमेन नरश्रेष्ठ यथा वदसि लक्ष्मण । वृत्रघातमशेषेण वाजिमेधफलं च यत् ।। श्रूयते हि पुरा सौम्य कर्दमय प्रजापतेः । पुत्रो बाहीश्वरः श्रीमानिला नाम महायशाः ॥३ स राजा पृथिवीं सा वशे कृत्वा सुधार्मिकः । राज्यं चैव नरव्याघ्र पुत्रवत पर्यपालयत् । ४ सुरैश्च परमादार तयैश्च महाधनैः । नागराक्षसगन्धर्यक्षश्च सुमहात्मभिः ।। पूज्यते नित्यशः मौम्य भयासै रघुनन्दन । अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ।। ६ स राजा नादृशो घासीद्धर्मे वीर्ये च निष्ठितः । बुद्धथा च परमोदारो बाहीकेशे महायशाः।।७ स प्रचक्रे महाबाहुमंगयां मचिरे वने । चैत्रे मनोरमे मासि समृत्यबलवाहनः । प्रजघ्ने च नृपोऽरण्य मृगाशतसहस्रशः । हत्वैव तृप्ति भूध राज्ञस्तस्य महात्मनः ॥ ९ नानामृगाणामयुतं वध्यमानं महात्मना । यत्र जातो महासेनस्तं देशमुपचक्रमे ॥ तस्मिन् प्रदेशे देवेशः शैलराजसुना हरः । रमयामास दुर्धर्षः सर्वैरनुचरैः सह ।। कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः । देव्याः प्रियचिकीर्षुः संस्तस्मिन् पर्वतनिझरे ॥१२ ये तु नत्र वनादेशे सत्त्वाः पुरुषवादिनः । वृक्षाः पुरुषनामानस्तेऽभवन्त्रीजनास्तदा ।। यश्च किंचन तत् सर्वं नारीसंझं बभूव ह । एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ॥ १४ निधन मृगमहस्राणि तं देशमुपचक्रमे । स दृष्ट्वा स्त्रीकृतं सर्व मव्यालमृगपक्षिकम् ॥ आत्मानं स्वीकृतं चैव सानुगं रघुनन्दन । तस्य दुःखं महवासीद्दृष्ट्वात्मानं तथागतम् ।। १६ उमापतेश्च तत् कम ज्ञात्वा त्रासमुपागमत् । ततो देवं महात्मानं शिनिकण्ठं कपर्दिनम् ॥ १७ जगाम शरणं राजा सभृत्यबलवाहनः । ततः प्रहस्य वरदः सह देव्या महेश्वरः ॥ १८ प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् । उत्तिष्टात्तिष्ठ राजर्षे कार्दमेय महाबल || पुरुषत्वमृते सौम्य वरं वरय सुव्रत । ततः स राजा दुःखातः प्रत्याख्यानो महात्मना ।। २० न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात । ततः शोकेन महता शैलराजसुतां नृपः ॥ २१ प्रणिपत्य ह्यमां देवीं सर्वेणैवान्तरात्मना । ईशे वराणां वरदे लोकानामसि भामिनी ॥ २२ १. सुधार्मिकः ति.