पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

? ७ ८ ९ १.१२ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्ड तस्यारण्यस्य मध्ये तु सरो योजनमायतम् । इंसकारण्डबाकीर्ण चक्रवाकोपशोभितम् ।। पद्मोत्पलसमाकीर्ण समतिक्रान्तशैवलम् । तदाश्चर्यमिवात्वर्थ सुखास्वादमनुत्तमम् ।। अरजस्कं तयाक्षोम्यं श्रीमत्पक्षिगणायुतम् । समीपे तस्य सरसो महदयुतमाश्रमम् ।। पुराणं पुण्यमल्लथं तपस्विजनवर्जितम् । तत्राहमवसं रात्रि नैदाघी पुरुषर्षभ ।। प्रभाते काल्यमुस्थाय सरस्तदुपचक्रमे । अयापश्यं शवं तत्र सुपुष्टमर कचित् ।। पैतिभेदेन पुष्टाङ्गं समाश्रितसरोवरम् । तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ।। तमयं चिन्तयानोऽहं मुहून तत्र रात्र । उषितोऽस्मि सरस्तीरे किं विदं स्यादिति प्रभो ॥१० अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनभ् । विमानं परमोदार हंसयुक्तं मनोजवम् ।। अत्यर्थ स्वर्गिणं तत्र विमाने रघुनन्दन । उपास्तेऽप्सरसां वरि सहनं दिव्यभूषणम् गायन्ति दिव्यगेयानि वादयन्ति तथापराः । वलयन्ति तथा चान्या नृत्यन्ति च तथापराः ॥ अपराश्चन्द्ररश्म्यामदण्डै चामरैः । दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ।। ततः सिंहासनं व्यक्या मेरुकूटमित्रांशुमान् । पश्यतो मे तदा राम विमानादवरुह्य च ।। तं शवं भक्षयामास स स्वर्गी रघुनन्दन । तथा भुक्त्वा यथाकामं मांस बहुसुपीवरम् ।। अवतीर्य सर: स्वर्गी संस्प्रष्टुमुपचक्रमे । उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव ।। १७ आरोदुमुपच काम विमानबरमुत्तमम् । तमहं देवसंकाशमारोहन्तमुदीक्ष्य 1) विमानमत्र वाक्यं स्वर्गिणं पुरुषर्षभ । को भवान् देवसंकाश आहारश्च विगर्हितः १९ स्वयेदं भुज्यते सौम्य किमर्थ वक्तुमर्हसि । कस्य स्यादीदृशो भात्र आहारो देवसमतः ॥ २० आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्वतः । नाहमापयिकं मन्ये तव भक्ष्यमिदं शवम् ॥ २१ इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलातू सूनृतया गिरा च । श्रुत्वा च वाक्यं मम सर्वमेतत् सर्व तथा चाकश्चयन्ममेति ॥ २२ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे स्वर्गिप्रश्नो नाम सप्तसप्ततितमः सर्गः अष्टमप्ततितमः सर्गः आमरणागमः श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् । प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ १ शृणु ब्रह्मन् पुरा वृत्तं ममैतत सुखदुःखयोः । अनतिक्रमणीय हि यथा पृच्छसि मां द्विज ॥२ पुरा वैदर्भको राजा पिता मम महायशाः । सुदेव इति विख्यातत्रिषु लोकेषु वीर्यवान् ॥ तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यो स्त्रीभ्यामजायत । अहं श्वेत इति ख्याती यवीयान् सुरथोऽभवत् ।। ति २. श्मर्ष ति. मास्ति। १. महाक्नेः ति.