पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तसप्ततितमः सर्गः ४४ अथोवाच महात्मानमिक्ष्याणां महारथः । रामो मतिमता श्रेष्ठः क्षात्रधर्ममनुस्मरन् । प्रतिग्रहोऽयं भगवन् बामणस्याविगर्हितः । गृहीयां क्षत्रियोऽहं वै कयं प्रामणपुङ्गय ॥ ३५ प्रामणेन विशेषेण दत्तं तदक्तुमईसि । एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ।। भासन् कृतयुगे राम बाभूते पुरायुगे | अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ३० ताः प्रजा देवदेवेशं राजार्य समुपाद्रवन् । सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।। ३८ प्रयच्छ नो हि लोकेश पार्थिव नरपुङ्गवम् । तस्मै पूजां प्रयुखाना धूतपापाश्चरेमहि ॥ न वसामा विना राज्ञा एष नो निश्चयः परः । प्रजानां वचनं श्रुत्वा निश्चयित्वार्थमुत्तमम् ॥४० ततो ब्रह्मा सुरश्रेष्ठो लोकपालान् सवासवान् । समाहूयाब्रवीत् सर्वास्तेजोभागान् प्रयच्छत ।।४१ ततो ददुलोकपालाः सः भागान् स्वतेजसः | अक्षुपञ्च ततो ब्रह्मा ततो जातः क्षुपो नृपः ॥४२ तं ब्रह्मा लोकपालानां सहाशैः समयोजयत् । ततो ददौ नृपं तासां प्रजानामाबरं क्षुपम्॥ ४३ तन्द्रेण च भागेन महीमाज्ञापयन्नृपः । वारुणेन तु भागेन वपुः पुष्यति राघव ॥ कौवेरेण तु भागेन वित्तमासा ददौ तदा । यस्तु याम्योऽभवद्भागस्तेन शास्ति स्म स प्रजाः ।। तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन । प्रतिगृहीत्र भद्रं ते तारणार्थ मम प्रभो ।। तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् । तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् । आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।। अस्यक्तमिदं दिव्यवपुषा युक्तमुत्तमम् । कथं भगवता प्राप्त कुतो वा केन वा हृतम् ।। कुतहलितया ब्रह्मन् पृच्छामि त्वां महायशः । आश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमयाब्रवीत् । शृणु राम यया वृत्तं पुरा त्रेतायुगे युगे । रमणीयप्रदेशेऽस्मिन् घने यदृष्टवानहम् । आश्चर्य में महाबाहो दानमाश्रित्य केवलम् ॥ ५२ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्त्रिकायां संहितायाम् उत्तरकाण्डे शम्बूकवधो नाम षट्सप्ततितमः सर्गः सप्तसप्ततितमः सर्गः स्वर्गिप्रश्नः पुरा त्रेतायुगे राम परण्यं बहुविस्तरम् । समन्तायोजनशतं निर्मूगं पक्षिवर्जितम् ॥ तस्मिनिर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् । अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥ २ तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह । फलै लैः सुखास्वादैर्बहुरूपैश्च पादपैः ।। १७ । १. क्षत्रियेण विन प्रतिप्राय भवचतः । प्रतियहो हि विप्रेन्द्र त्रियागी गर्हितः ॥ इति कोक: इतः पूर्व च. प्रक्षिप्तो दृश्यते । १४. रितीवमर्थ रामो मतिमतां इलाचारभ्य एतत्पर्यन्तं तिबके प्रक्षिप्तं विलोक्यो ३. इदं पर्व ति. ४. काननैः ति. नास्ति। २.