पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१.६० श्रीमद्वाल्मीकिरामायणे उत्तरका स ८ सुप्रीताश्चब्रुवन् रामं देवाः सत्यपराक्रमम् । सरकार्यमिदं सौम्य सुकृतं ते महामते ।। गृहाण च वरं सौम्य यस्वमिछस्परिन्दम । स्वर्गभान हि शूद्रोऽयं स्वरकृते रघुनन्दन ॥ देवानां भाषितं श्रुत्वा राघवः सुसमाहितः । उवाच प्राणलिक्यिं सहस्राक्षं पुरन्दरम् ॥ यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु । दिशन्तु वरमेतन्म ईप्सितं परमं मम ॥ १० ममापचाराघातोऽसौ ब्राह्मणस्यैकपुत्रकः । अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ तं जीवयत भद्रं वो नानृतं कर्तुमर्हय । द्विजस्य संश्रुतोऽयों में जीवयिष्यामि ते सुतम् ॥ १२ राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रात्यूचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ १३ निर्वृतो भव काकुत्स्थ सोऽस्मिन्नहनि बालकः । जीवितं प्राप्तवान् भूयः समेतश्चापि बन्धुभिः॥ यस्मिन् मुहूर्ते काकुत्स्थ शूद्रोऽयं विनिपातितः । तस्मिन् मुह बालोऽसौ जीवेन समयुज्यत । स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ । अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ तस्य दीक्षा समाप्ता हि प्रहर्षेः सुमहाद्युतेः । द्वादशं हि गत वर्ष जलशम्यां समासतः ।। १७ काकुत्स्थ तद्गमिष्यामो मुनि समभिनन्दितुम् । त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥१८ स तथेति प्रतिज्ञाय देवानां रघुनन्दनः । आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः । गमोऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥ २० दृष्टा तु देवान् संप्राप्तानगस्त्यस्तपसां निधिः । अर्चयामास धर्मात्मा सर्वास्तानविशेषतः ॥ २१ प्रतिगृह्य ततः पूजा संपूज्य च महामुनिम् । जग्मुस्ते त्रिदशा हष्टा नाकपृष्ठं सहानुगैः ॥ २२ गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च । ततोऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ।। २३ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा | आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ तमुवाच महातेजाः कुम्भयोनिमहातपाः । स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥ २५ त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमः ! अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ।। २६ मुरा हि कथयन्ति त्वामागतं शूदधातिनम् । बामणस्य तु धर्मेण त्वया जीवापितः तः ॥२७ उभ्यतां चेह रजनी सकाशे मम राघव । प्रभाते पुष्पकेण त्वं गन्तासि पुरमेव हि ॥ २८ त्वं हि नारायणः श्रीमांस्त्वयि सर्व प्रतिष्ठितम् । वं प्रभुः सर्वभूतानां पुरुषस्व सनातनः॥२९ इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा । दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा । प्रतिगृहीष्व काकुत्स्थ मस्त्रियं कुरु राधव । दत्तस्य हि पुनर्दाने सुमहत् फलमुच्यते ॥ भरणे हि भवाञ्शक्तः सेन्द्राणां मरुतामपि । त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ॥३२ तस्मात् प्रदास्ये विधिवत्सत् प्रतीच्छ नराधिप । दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥३३ २४ 1. जीवापितः, पु आर्यः इति तिलकः । राजन् ति. २. जस्थानन्तरम्-तद्रामः प्रसिजमार मुने- स्तस्य महात्मन:-ति क. हवं ति. न दृश्यते । स. स्वपुर ति. ४,