पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ षट्सप्ततितमः सर्गः १०५९ यथा शरीरो बालस्य गुप्तः सञ्शिष्टकर्मणः । विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ४ एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् । मनसा पुष्पकं दध्यावागच्छेति महायशाः ।। इङ्गितं स तु विज्ञाय पुष्पको हेम भूषितः । आजगाम मुहूर्तेन समीपं राधवस्य वै ॥ ६ सोऽब्रवीत् प्रणतो भूत्वा अयमस्मि नराधिप । श्यस्तव महाबाहो किंकरः समुपस्थितः ॥ ७ भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः । अभिवाद्य महोस्तान् विमानं सोऽध्यरोहत ।। धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् । निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ प्रायात् प्रतीची हरितं विचिन्वंश्व ततस्ततः । उत्तरामगमच्छीमान् दिशं हिमवता वृताम् ।।१० अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् । पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥ प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् । पुष्पकस्थो महाबाहुस्तदा पश्यन्नराधिपः ॥ १२ दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः । शैवलस्योत्तरे पार्थे ददर्श सुमहत् सरः ।। तस्मिन् सरसि तप्यन्तं तापसं सुमहत्तः । ददर्श राधवः श्रीमॉल्लम्बमानमधोमुखम् ॥ १४ राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् । उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ।। १५ कस्या योन्यां तपोवृद्ध वर्तसे दृढविक्रमः । कौतूहलात्वां पृच्छामि रामो दाशरथिह्यहम् ॥ १६ कोऽर्थो मनीवितस्तुभ्यं स्वर्गलाभः परोऽथ वा । वराश्रयो यदर्थ त्वं तपस्यसि सुदुष्करम् ।। १७ यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस । ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः ॥१८ वैश्यस्तृतीयवों वा शूद्रो वा सत्यवाग्भव ॥ इत्येवमुक्तः स नराधिपेन ह्यवाक्शिरा दाशरथाय तस्मै । उवाच जातिं नृपधुशवाय यत्कारणे चैव तपःप्रयत्नः ।। इत्यार्षे भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे शम्बूकविचयो नाम पञ्चसप्ततितमः सर्ग: षट्सप्ततितमः सर्गः शम्बूकवधः तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्शिरास्तथा भूत्वा वाक्यमेतदुवाच ह ।। १ शूदयोन्यां प्रसूनोऽस्मि शम्बूको नाम नामतः । देवस्वं प्रार्थये राम सशरीरो महायशः ।। २ न मिथ्याई वदे राम देवलोकजिगीषया । शूद्रं मां विद्धि काकुत्स्य तप उग्रं समास्थितम् ॥ ३ भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् । निष्कृष्य कोसाद्विमलं शिरश्चिच्छेद राघवः ॥ सस्मिशूद्रे हते देवाः सेन्द्रा सानिपुरोगमाः । साधु साध्धिति काकुत्स्थं प्रशशंसुर्मुहुर्मुः ।। ५ पुष्पवृष्टिमहत्यासीदिव्यानां सुसुगन्धिनाम् । पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। अर्थमिदं पूणान्वितम् । लिष्टकर्मणः' किष्टकर्मणः इति सि. इंति चद्देश्यले म पाठः लिष्टः । शुभाचारस्येत्यर्थः । १. तपस्यन्यैस्सदश्वरे. ति. २. शम्बूको नाम नामतः ति. ४ ६ 1.