पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०५८ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे २४ युगयोरुभयोरासीत् समवीर्यसमन्वितम् । अपश्यंस्तु न ले सर्वे विशेषमधिकं ततः ॥ स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य संमतम् । तस्मिन् युगे प्रज्वलिते धर्मभूते ह्यनावृते ।। १५ अधर्मः पादमेकं तु पातयत् पृथिवीतले । अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ आमिषं यच पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥ अनृतं पातयित्वा तु पादमेकमधर्मतः । ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।। पातिते त्वन्ते तस्मिन्नधर्मे च महीतले । शुभान्येशाचरल्लोकः सत्यवर्मपरायणः ।। १९ त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाच ये । तपोऽनप्यन्त ते सर्वे शभूषामपरे जनाः ॥ २० स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् । पूजां च सर्ववर्णानां शूद्राश्चकुर्विशेषतः ।। २१ एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह । ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ।। २२ ततः पादमधर्मः स द्वितीयमवतारयत् । ततो द्वापरसंज्ञास्य युगस्य समजायत । तस्मिन् द्वापरसंज्ञे तु वर्तमान युगक्षये । अधर्मश्चानृतं चैत्र ववृधे पुरुषर्षभ । तस्मिन् द्वापरसंक्ष्याने तपो वैश्यान् समाविशत् । त्रिभ्यो युगेभ्यस्त्रीन् वर्णान् क्रमाद्वै नप आविशत् ।। त्रिभ्यो युगेभ्यस्त्रीन् वर्णान् धर्मश्च परिनिष्ठितः । न शूद्रो लभते धर्म युगतस्तु नरर्षभ ॥ २६ हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः । भविष्यद्रयोन्या वै तपश्चर्या कलौ युगे । २७ अधर्मः परमो राजन् द्वापरे शूदजन्मनः । स वै विषयपर्यन्ते तत्र राजन् महातपाः । २८ अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् । यो ह्यधर्ममकार्य या विषये पार्थिवस्य तु । २९ करोति चाश्रीमूलं तत् परे वा दुर्मतिर्नरः । क्षिप्रं च नरके याति स च राजा न संशयः॥३० अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च । षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ ३१ षड्भागस्य न भोक्तासौ रक्षते न प्रजाः कथम् । स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ॥ दुष्कृतं यत्र पश्येपास्तत्र यनं समाचर । एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ॥ भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाध्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे नारदवचनं नाम चतु:सप्ततितमः सर्गः पञ्चसप्ततितमः सर्गः शम्बूकविचयः नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं तदा । प्रहर्षमतुलं लेभे लक्ष्मण चेदमब्रवीत् ॥ १ गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् । बालस्य तु शरीरं सत्तैलद्रोण्या निधापय ॥ २ गन्धेश्च परमोदारैस्तैलैश्चापि अगान्धिभिः । यथा नक्षीयते बालस्तथा सौम्य विधीयताम् ॥ ३