पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे द्वादशैतानि वर्षाणि'त्वां विना रघुनन्दन । मोत्सहेयमई वस्तुं स्वया विरहितो नृप ।। स मे प्रसाद काकुत्स्थ कुरुष्वामितविक्रम । मातृहीनो यया वासो न चिरं प्रवसाम्यहम् ॥ १२ एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् । मा विषादं कृया शूर नैतत् क्षस्त्रियचेष्टितम् ॥ १३ नावसीदन्ति राजानो विप्रवासेषु राधय । प्रजा नः परिपाल्या हि क्षत्रधर्मेण राधव ।। काले काले च मां वीर झयोध्यामवलोकितुम् । आगन्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तक॥१५ ममापि स्वं मुदयितः प्राणैरपि न संशयः । भवश्यं करणाय च राज्यस्य परिपालनम् ॥ १६ तस्मात्त्वं वत्स काकुत्स्थ सप्तरात्रमिहावस । ऊर्ध्व गन्तासि मधुरां समृत्यबलवाहनः ।। रामस्यैतद्वचः श्रुत्वा धर्मयुकं मनोगतम् । शत्रुध्नो दीनया वाचा बादमित्येव चालवीत् ॥ १८ सरात्रं च काकु-स्थो राघवस्य यथाज्ञया । उध्य तत्र महेष्वासो गमनायोपचक्रमे ॥ आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् । भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ २० दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना । भरतेन च शत्रुध्नो जगामाशु पुरं ततः ॥ २१ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे शत्रुघ्नरामसमागमो नाम द्विसप्ततितमः सर्गः २ ३ त्रिससतितमः सर्गः ब्राह्मणपरिदेवनम् प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः । प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ।। १ ततः कतिपयाहस्सु वृद्धो जानपदो द्विजः । मृनं बालमुपादाय राजद्वारमुपागमत् ॥ रुदन् बहुविधा वाचः स्नेहदुःखसमन्वितः । असकृत् पुत्र पुत्रेति वाक्यमेतदुवाच ह ।। किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कुनम् । यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥ ४ अप्राप्त यौवनं बालं पञ्चवर्षसहस्रकम् । अकाले कालमापनं मम दुःखाय पुत्रक । अल्पैरहाभिनिधनं गमिष्यामि न संशयः । अहं च जननी चैव तव शोकेन पुत्रक !! न स्मराम्यनृतं ह्यक्तं न च हिंसां स्मराम्यहम् । सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ॥ ७ केनाथ दुष्कृतेनार्य बाल एव ममात्मजः । अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ।। नेदृशं दृष्टपूर्व मे श्रुतं वा घोरदर्शनम् । मृत्युरप्रातकालानां रामस्य विषये येथा । रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः । यथा हि विषयस्थाना बालानां मृत्युरागतः॥१. न ह्यन्यविषयस्थानां बालानां मृत्युतो भयम् । त्वं राजजीवयस्पैनं बाले मृत्युक्शं गतम् ॥ ११ ६ थ ८ ९ । 'सहस्रसंवत्सर च. 1. वर्षशदो दिनपरः सत्रमासत' इति इति तिलक। १. द्वादशेत गता : प्रबन्. ति..