पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विसप्ततितमः सर्गः : १.०५५ ममापि परमा प्रीतिईदि शत्रुघ्न वर्तते । उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ १२ इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः । आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥ १३ स भुक्तवानरश्रेष्ठो गीतमाधुर्यमुत्तमम् । शुश्राव रामचरितं तस्मिन् काले यथाक्रमम् ॥ तन्त्रीलयसमायुक्तं त्रिस्थान करणान्वितम् । संस्कृतं लक्षणोपेतं समतालसमन्वितम् ॥ शुश्राव रामचरित तस्मिन् काले पुरा कृतम् । तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः॥ १६ श्रुत्वा पुरुषशार्दूलो विसंजो बालोचनः । स मुहूर्तमिवासंज्ञो विनिश्वस्य मुहुर्मुहुः ।। तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् । पदानुगाश्च ये राजस्तां श्रुत्वा गीतिसंपदम् ॥ १८ अवाङ्मुखाश्च दीनाच आश्चर्यमिति चाब्रुवन् । परस्परं च ये नत्र सैनिकाः संबभाषिरे ॥ १९ किमिदं क च वर्तामः किमेतत् स्वमदर्शनम् । अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ॥२० शृणुमः किमिदं स्त्रो गीतबन्धं श्रितो भवेत् । विस्मयं ते परं गत्वा शत्रुघ्न मिदमब्रुवन् !॥ २१ साधु पृच्छ नरश्रेष्ठ वाल्मीकि मुनिपुङ्गवम् । शत्रुघ्नस्स्वनवीत् सर्वान् कौतूहलसमन्वितान् ॥२२ सैनिकानक्षमोऽस्माकं परिप्रष्टुमिहे दृशः । आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।। न तु कौतृहलायुक्तमन्वेष्टुं नं महामुनिम् । एवं तद्वाक्यमुक्त्वा च सैनिकान् रघुनन्दनः ॥ २४ अभिवाद्य महर्षि तं स्वं निवेशं ययौ तदा ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे शत्रुमप्रशंसा नाम एकसप्ततितमः सर्गः २३ द्विसप्ततितमः सर्गः शत्रुघ्नरामसमागमः तं शयानं नरव्याचं निद्रा नाम्यागमत्तदा । चिन्तयन्तमनेकार्थ रामगीतमनुत्तमम् ॥ १ तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ॥ श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ २ तस्यां निशायां व्युष्टायां कृत्वा पौर्वाहिकं क्रमम् । उवाच प्राञ्जलिवाक्यं शत्रुघ्नो मुनिपुङ्गवम् ।। भगवन् द्रष्टुमिच्छामि राघवं रघुनन्दनम् । त्वयानुज्ञातमिच्छामि सहैभिः संशितव्रतः ॥ इत्येवंवादिनं तं तु शत्रुघ्न शत्रुतापनम् । वाल्मीकिः संपरिष्वज्य विससर्ज च राघवम् ।। सोऽभिवाद्य मुनिश्रेष्ठ रथमारुह्य सुप्रभम् । अयोध्यामगमत्तूर्ण राघुवोसुकदर्शनः ॥ स प्रविष्टः पुरी रम्या श्रीमानिक्ष्वाकुनन्दनः । प्रविषेश महाबाहुर्यत्र रामो महाद्युतिः ।। स राम मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् । पश्यानमरमध्यस्थं सहस्रनयनं यथा ॥ अभिवाय महात्मानं ज्वलन्तमिव तेजसा । उवाच प्राञ्जलिवाक्यं रामं सत्यपराक्रमम् ।। यथा महराज सर्व तत् कृतवानहम् । हतः स लवणः पापः पुरी चास्य निवेशिता ॥ १० ५ ६ ७ ८ ९ १. यथारुतं ति,