पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०५४ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे ८ ते तथोक्त्वा महात्मानो दिवमारुरुडस्तदा । शत्रुघ्नोऽपि महातेजास्तां सेना समुपानयत् ।। सा सेना शीघ्रमागच्छच्छत्वा शत्रुघ्नशासनम् । मिवेशनं च शत्रुघ्नः श्रवणेन समारमत् ॥ सा पुरा दिव्यसंकाशा वर्षे द्वादशमे शुभे । निविष्टा शूरसेनानां विषयश्चाकुतोमयः ।। क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः । अरोगवीरपुरुषा शत्रुघ्नभुजपालिता । अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता । शोभिता गृहमुख्यैश्च चस्वरापणवीथिकैः ॥ चातुर्वर्यसमायुक्ता नानावाणिज्यशोभिता । यश्च तेन पुरा शुभ्र लवणेन कृतं महत् ।। तच्छोभयति शत्रुघ्नो नानाव!पशोभितम् । आरामैश्च विहारैश्च शोभमानां समन्ततः ॥ शोभितां शोभनीयैश्च तथान्यैर्देवमानुषैः । तां पुरीं दिव्यसङ्काशा नानापण्योपशोभिताम् ॥ १४ नानादेशागतश्चापि वणिभिरुपशोभिताम् । त समृद्धा समृद्धाः शत्रुघ्नो भरतानुजः ॥ १५ निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् । तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरा पुरीम् ।। रामपादौ निरीक्षेऽहं वर्षे द्वादश आगते ।। ततः स ताममरपुरापमा पुरी निवेश्य वै विविधजनाभिसंवृताम् । नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाध्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे मधुपुरीनिवेशो नाम सप्ततितमः सर्गः २ ४ एकसप्ततितमः सर्गः शत्रुघ्नप्रशंसा ततो द्वादशमे वर्षे शत्रुध्नो रामपालिताम् । अयोध्या चकमे गन्तुमल्पभृत्यबलानुगः ।। १ ततो मन्त्रिपुगेगांश्च बलमुख्यानिवर्त्य च । जगाम हयमुख्यैश्च स्थानां च शतेन सः ॥ स गत्वा गणितान् वासान् सप्ताष्टौ रघुनन्दनः । वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ।। सोऽभिवाच ततः पादौ वाल्मीकः पुरुषर्षभः । पाद्यमध्य तथातिथ्यं जग्राह मुनिहस्ततः ।। बहुरूपाः सुमधुराः कथास्तत्र सहवशः । कथयामास स मुनिः शत्रुध्नाय महात्मने । उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् । सुदुष्करं कृतं कर्म लवणं निम्नता स्वया ॥ बहवः पार्थिवाः सौम्य इताः सबलवाहनाः । लवणेन महाबाहो युध्यमाना महाबलाः ॥ स स्वया निहतः पापो लीलया पुरुषर्षभ । जगतश्च भयं तत्र प्रशान्तं तव तेजसा ।। ८ रावणस्य वधो घोरो यनेन महता कृतः । इदं तु समहत् कर्म स्वया कृतमयततः ।। ९ प्रीतिश्चास्मिन् परा जाता देवानां लवणे हते । भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥१० तश्च युद्धं मया दृष्टं यथावत् पुरुषर्षभ । सभायां वासवस्थाथ उपविष्टेन राघव ॥ ११ ५ ६ ७