पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७ ८ ९ १०५२ भीमद्वाल्मीकिरामायणे उत्तरका एकोनसप्ततितमः सर्गः लवणवधः तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः । क्रोधमाहारयत्ती तिट तिष्ठति चालवीत् ॥ १ पाणी पाणिं विनिपिथ्य दन्तान् कटकटाग्य च । लवणो रघुशार्दूलमायामास चासकृत् ॥ २ तमादयन्तं सौमित्रिर्लवणं धोरदर्शनम् । शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ३ न शत्रुघ्नस्तथा जातो यथान्ये निर्जितारवया । तदप बाणाभिहतो ब्रज त्वं यमसादनम् ॥ १ ऋषयोऽप्यब पापात्मन् मया स्वां निहतं रणे । पश्यन्तु विप्रा विद्वांसखिदशा इव रावणम् ॥ ५ स्वयि माणनिर्दग्धे पतितेऽप निशाचर । पुरे जनपदे चापि क्षेममेव भविष्यति ॥ ६ अध मदाहुनिष्कान्तः शरो वप्रनिभाननः । प्रवेक्ष्यते ते हृदयं पद्मशुरिवार्कजः ।। एवमुक्तो महावृक्षं लवणः क्रोधमूर्छितः । शत्रुघ्नोरसि चिक्षेप स च तं शतधाछिनत् ।। तवा विफलं कर्म राक्षसः पुनरेव तु । पादपान् सुबहून् गृह्य शत्रुध्नायासृजली ।। शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् । त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥ १० ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि । शत्रुघ्नो वीर्यसंपनो विव्यथे न स राक्षसः ।। ततः प्रहस्य लवणो वृक्षमुषम्य वीर्यवान् । शिरस्यभ्यहनर सस्ताङ्गः स मुमोह वै ॥ १२ तस्मिनिपतिते वीरे हाहाकारो महानभूत् । ऋषीणां देवसवानां गन्धर्वाप्सरसा तथा ।। १३ तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् । रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ १४ नापि शूलं प्रजग्राह तं ना मुवि पातितम् । ततो हत इति जावा तान् भक्षान् समुदावहत् ॥ मुहूर्ताल्लन्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः । शत्रुघ्नो वै पुरद्वारे ऋषिभिः संप्रपूजितः ।। ततो दिव्यममोघं तं जग्राह शरमुसमम् । अवलन्त तेजसा धोरं प्रयन्तं दिशो दश ॥ वज्राननं वज्रवेगं मेरुमन्दरसंनिभम् । नतं पर्वस सर्वेषु संयुगेष्वपराजितम् ॥ असृक्चन्दनदिग्धानं चारुपत्रं पतत्रिणम् । दानवेन्द्राचलेन्द्राणाममुराणां च दारणम ॥ तं दीप्तमिव कालानिं युगान्ते समुपस्थिते । दृष्टा सर्वाणि भूतानि परित्रासमुपागमन् । २० सदेवावरगन्धर्व मुनिभिः साप्सरोगणम् । जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ २१ उचुश्च देवा देवेशं वरदं प्रपितामहम् । कचिल्लोकक्षयो देव संप्राप्तो वा युगक्षयः ।। २२ नेदृशं दृष्टपूर्व च न श्रुतं प्रपितामहे । देवानां भयसंमोहो लोकानां संक्षयं प्रति ॥ २३ तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः । भयकारणमावष्ट लोकानामभयंकरः ।। २४ उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः । वधाय लवणस्याजी शरः शत्रुघ्नधारितः ।। २५ तेजसा तस्य संमूढाः सर्वे स्मः पुरसत्तमाः । एष पूर्वस्य देवस्य लोककर्तुः सनातनः ॥ २६ शरस्तेजोमयो बस्सास्तेन वो मयमागतम् । एष वै केटमस्थार्थे मधुनश्च महाशरः ॥ १. दारणं ति. २. कथित इलारा सदमा वि. नास्ति।