पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टषष्टितमः सर्गः १०५१ ३ ४ ५ ७ ८ ९ अष्टषष्टितमः सर्गः लवणशत्रुघ्नविवादः कां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् । व्यतीता रजनी शीघ्रं शत्रुध्नस्य महात्मनः ॥ १ ततः प्रभाते विमले तस्मिन् काले स राक्षसः । निर्गतस्तु पुराद्धौरो भक्ष्याहारप्रचोदितः ॥ २ एतस्मिन्नन्तरे वीरः शत्रुध्नो यमुना नदीम् । ती मधुपुरद्वारि धनुपाणिरतिष्ठत ।। ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षस । आगच्छद्बहुमाहस्र प्राणि- भारमुद्वहन् । ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् । तमुवाच ततो रक्षः किमनन करिष्यसि ।। ईशानां सहस्राणि सायुधानां नराधम । भक्षितानि मया रोषात् कालमाकाङ्क्षसे नु किम् ॥ ६ आहारश्वास्य संपूर्णो ममायं पुरुषाधम । स्वयं प्रविष्टोऽध मुख कयमासाद्य दुर्मते ।। तस्यैवं भाषमाणस्य हसतश्च मुहर्मुहुः । शत्रु । वीर्यसंपन्नो रोपादश्रूण्यासृजत् ॥ तस्य रोषाभिभूतस्य शत्रुध्नस्य महात्मनः । तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पनन् । उवाच च सुसंकुद्धः शत्रुघ्नन्तं निशाचरम् । योबुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ १० पुत्रो दशस्यस्याहं भ्राता रामस्य धीमतः । शत्रुध्ना नित्यशत्रुध्नो वधाकाङ्क्षी तवागतः ॥ ११ तस्य मे युद्धकामस्य द्वन्द्व युद्धं प्रदीयताम् । शत्रुस्त्वं सर्वजीवानां न मे जीवन् गमिष्यसि ॥ १२ तस्मिस्तथा ब्रुवाणं तु राक्षसः प्रहसन्निव । प्रत्युवाच नरश्रेष्ठं दिप्ट्या प्राप्तोऽसि दुर्मते ॥ १३ मम मातृष्वसुता रात्रणो राक्षसाधिपः । हतो रामंग दर्बुदे स्त्रीदेतो. पुरुषाधम || १४ तच सर्व मया क्षान्तं रावणस्य कुलक्षयम । अवज्ञा पुरतः कृत्वा मया यूयं विशेषतः ॥ १५ निहताश्च हि भे सर्वे परिभूताम्तृणं यथा । भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ १६ तस्य ते युद्ध कामस्य युद्धं दास्यामि दुर्मने । तिष्ठ स्वं च मुहून तु यावदायुधमानये ॥ इप्सितं यादृशं तुभ्यं सजये यावदायुधः । तमुवाचाथ शत्रुघ्नः क मे जीवन् गमिष्यसि ।। १८ शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना । यो हि विजयया बुद्धया प्रसरं शत्रवे दिशेत् ।। १९ स हतो मन्दबुद्धिवाद्यथा कापुरुषस्तथा ।। तस्मात् सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैन यामि । यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य । २० इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे लवणशत्रुघ्नविवादो नाम अष्टपष्टितमः सर्गः प्र. १. कानानुगतो असि. सि. माम चुनः सि. २.