पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४६ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे पौराः प्रमुदिताश्चासन् बामणाश्च बहुश्रुताः । कौसल्या च सुमित्रा च मङ्गलं केकयी तथा ।। चक्रुस्ता राजभवने याश्वान्या राजयोषितः । ऋषयश्च महात्मानो यमुनातीरवासिनः ।। १७ हतं लवणमाशंसुः शत्रुघ्नम्याभिषेचनात् । ततोऽभिषिक्त शत्रुनमकमारोप्य राघवः ॥ १८ उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् । अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयः ।। अनेन लवणं सौम्य हन्तासि रघुनन्दन । सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे ॥ २० स्वयम्भूरजितो देवो यं नापश्यन् सुरासुराः । अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ।। २१ सृष्टः क्रोधाभिभूतेन विनाशार्थ दुरात्मनोः । मधुकैटभयोर्वीर विधाते वर्तमानयोः । २२ स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि । तौ हत्वा जनभोगार्थ कैटभं तु मधू तथा ॥२३ अनेन शरमुख्येन ततो लोकांश्चकार सः । नायं मया शरः पूर्व रावणस्य वधार्थिना ।। मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति । यच्च तम्य महच्छूलं व्यम्बकेण महात्मना ।। २५ दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् । स तं निक्षिप्य भवने पूज्यमानं पुनः पुनः ।। दिशः सर्वाः समासाद्य प्रामोत्याहारमुत्तमम् । यदा तु युद्धमाकाक्षन् कश्चिदनं ममाह्वयेत् ।। तदा शूलं गृहीत्वा तं भस्म रक्षः कराति हि । स त्वं पुरुषशार्दल तमायुधविनाकृतम् || २८ अप्रविष्टं पुरं पूर्व द्वारि तिष्ठ धृतायुधः । अप्रविष्टं च भवनं युद्धाय पुरुषर्पभ ।। आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् । अन्यथा क्रियमाणे तु अवध्यः स भविष्यति । यदि त्वेवं कृतं वीर विनाशमुपयाम्यति । एतत्ते मर्वमाग्न्यानं शूलम्य च विपर्ययः ।। ३१ श्रीमतः शितिकण्ठम्य कृत्यं हि दुरतिक्रमम ।। इत्याचे श्रीमद्रामायण बाल्मीकीय आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे लषणवर्धापायकथनं नाम त्रिषष्टितमः सर्ग: २ ३ चतुःषष्टितमः मर्गः शत्रुघ्नप्रस्थानम् एवमुत्त्वा च काकुम्थं प्रशस्य च पुनः पुनः । पुनरवापरं वाक्यमुवाच रघुनन्दनः ।। १ इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ । स्थानां द्वे सहने च गजानां शतमुत्तमम् ॥ अन्तगपणवीथ्यश्च नानापण्योपशोभिताः । अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ हिरण्यम्य सुवर्णम्य नियुतं पुरुषर्षभ । आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। बलं च सुभृतं वीर हृष्टपुष्टमनुत्तमम् । संभाषासंग्रदानेन रञ्जयस्व नरोत्तमम् ।। न खस्तत्र तिष्ठन्ति न दाग न च बान्धवाः । सुप्रीतो भृत्यवर्गश्च यत्र तिमति राघव ॥ ६ ततो हृष्टजनाकीणां प्रस्थाप्य महतीं चमूम् । एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ ७ यथा त्वां न प्रजानाति गच्छन्तं युद्धकाक्षिणम् । लवणस्तु मधोः पुत्रस्तथा गच्छेरशहितम् ॥ १. सर्वरक्षा ति। २. हासो ति. ४