पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पकषष्टितमः सर्गः १०४३ प्रविष्टं राजभवनं तापसानां महात्मनाम् । ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।। गृहीत्वा फलमूलं च रामन्याभ्यााग्न् बहु । प्रतिगृह्य तु तत् सर्वे रामः प्रीतिपुरस्कृतः ।। ९ तीर्थोदकानि सर्वाणि फलानि विविधानि च । उवाच च महाबाहुः सर्वानेव महामुनीन् ॥१० इमान्यासनमुख्यानि यथार्हमुपविश्यताम् । रामभ्य भाषिनं श्रुन्या सर्व एव महर्षयः ।। वृसीषु रुचिराग्ल्यामु निपेदुः काञ्चनीषु ते । उपविष्टानृषीस्तत्र दृष्ट्वा परपुरचयः ॥ प्रयतः प्राञ्जलिभूत्वा गघवो वाक्यमब्रवीत । किमागमनकार्य वः किं करोमि समाहितः ॥१३ आज्ञाप्योऽहं महीणां सर्वकामकरः सुग्वम् । इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।। सर्वमेतद्विजार्थं मे सत्यमेतद्ब्रवीमि वः । नग्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।। १५ ऋषीणामुग्रतपसां यमुनानीग्वामिनाम् । ऊचुश्च ते महात्मानी हर्पण महता वृताः ॥ उपपन्नं नरश्रेष्ठ नवैव भुवि नान्यनः । बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ॥ कार्यम्य गौरवं मत्वा प्रतिज्ञा नाभ्यरोचयन् ।। न्वया पुनर्बाह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् । ततश्च कर्ना यसि नात्र संगयो महाभयात्रातुमृषीम्बमर्हसि ।। इत्यार्षे श्रीमद्रामायणे वल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे मानवच्यवनाद्यागमनं नाम षष्टितमः सर्ग: २ ३ ४ ६ एकपष्टितमः नर्गः लवणत्राणप्रार्थना ब्रुवद्भिरेवमूर्षिभिः काकुत्स्थी वाक्यमब्रवीत् । किं कार्य ब्रूत मुनयो भयं तावदपैतु वः ।। १ नथा ब्रुवति काकुत्म्थे भार्गवो वाक्यमब्रवीन । भयानां शृणु यन्मलं देशम्य च नरेश्वर ।। पूर्व कृतयुगे गजन् दैतेयः मुम : बिल । लोलपुत्रोऽभवज्येष्ठो मधुर्नाम सहासुरः ।। ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः । सुरैश्च परमोदारः प्रीनिम्तम्यानुलाभवत् ।। स मधुर्वीर्यसंपन्नो धैर्मे च मुममाहित. । बहुवर्षमात्राणि रुद्रप्रीत्याकरोत्तपः ।। रुद्रः प्रीतोऽभवत्तम्मै वरं दातुं ययौ च मः । बहुमानाञ्च रुद्रेण दत्तम्तम्याद्भुतो वरः ।। शूलं शूलाद्विनिष्कृप्य महावीर्य महाप्रभम् । ददौ महात्मा सुप्रीतो वाक्यं चैनदुवाच ह ।। ७ त्ययायमतुलो धर्मो मत्प्रसादकर- कृनः । प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ।। यावत् सुरैश्च विप्रैश्च न विरुध्येमहासुर । तावच्छूलं नवेदं म्यादन्यथा नाशमेष्यति ।। यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः । तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ १० एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ।। ११ भगवन् मम वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव सुराणामीश्वगे यसि ॥ १२ तं ब्रुवाणं मधु देवः सर्वभूतपतिः शिवः । प्रत्युवाच महातेजा नैतदेवं भविष्यनि ।। १३ १. सुमहामतिः ति. धर्म ति.। ३. बहुमानाचेत्यारभ्य एतदातं ति. नास्ति । ४. शुभः ति.। ८ .