पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७ ८८ ९ १६ १०३६ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे नहुषस्य सुतो राजा ययातिः पौरवर्धनः । तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥ एका तु तस्य राजर्षे हुषस्य पुरस्कृता । शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ । न तु सा दयिता राज्ञो देवयानी सुमध्यमा । तयोः पुत्रौ तु संभूतौ रूपवन्तौ समाहितौ । शर्मिष्ठाजनयत् पूरु देवयानी यदं तदा ।। १० पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च। ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ॥ भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः । सहसे हृद्तं दुःखमवमानं च दुःसहम् ॥ १२ आवां च सहितौ देवि प्रविशाब हुताशनम् । राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ।। यदि वा सहनीयं ते मामनुज्ञातुमर्हसि । क्षम त्वं न क्षमिप्येहं मरिष्यामि न संशयः ॥ १४ पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः । देवयानी तु संक्रुद्धा सस्मार पितरं तदा ।। १५ इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा । आगतस्त्वरितं तत्र देवयानी तु यत्र सा ।। दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् । पिना दुहितरं वाक्यं किमेतदिति चाब्रवीत् ॥ १७ पृच्छन्तमसकृत्तं वै भार्गवं दीसनेजसम् । देवयानी तु संकुद्धा पितरं वाक्यमब्रवीत् ।। अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम । भक्षयिष्ये प्रवक्ष्यामि न तु शक्ष्यामि जीवितुम् १० न मां त्वमवजानीषे दुःखितामवमा निताम् । वृक्षम्यावज्ञया ब्रह्मन् खिद्यन्ते वृक्षजीविनः ॥ २० अवजया च राजर्षिः परिभूय च भार्गव । मथ्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ॥ २१ तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः । माहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ।। यस्मान्मामवजानीपं नाहुप त्वं दुगत्मवान् । जरया परया जीर्णः शैथिल्यमुपयाम्यसि ।। २३ एवमुक्ता दुहितरं सनाश्वाम्य च भार्गवः । पुनर्जगाम ब्रह्मर्पिभवनं म्वं महायशाः ।। स एवमुक्ता द्विजपुङ्गवाध्यः सुनां समाश्वास्य च देवयानीम् ।। पुनर्ययौ मूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥ २५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकान्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे ययातिशापो नाम अष्टपञ्चाश: सर्ग: २ एकोनपष्टितमः सर्गः पूरुराज्याभिषेकः श्रुत्वा नूशनसं क्रुद्धं तदा? नहुपात्मजः । जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ।। १ यदो त्वमसि धर्मज्ञो मदर्थ प्रतिगृह्यताम् । जरां परमिकां पुत्र भोगै रस्ये महायशः ।। न तावत् कृतकृत्योऽस्मि विषयेषु नरर्षभ । अनुभूय तथा कामं ततः प्राप्स्याम्यहं जराम् ॥ ३ यदुम्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम्। पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ॥ वरिष्कृतोऽहमर्थेषु संनिकर्षाश्च पार्थिव । प्रतिगृहातु बै राजन् का सहाभाति भोजनम् ॥ ५ तस्य तद्वचनं श्रुत्वा राजा पूरमथाब्रवीत् । इयं जरा महाबाहो मदर्थ प्रतिगृपताम् ।। ६ प्रवेश्य वा ति। २. यः सहाशावि. ति। १ २. परीयतः सि।