पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आटपश्चाशः सर्गः ८ यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः । तस्मिंस्तेजोमयौ विप्रौ संभूतावृषिसत्तमौ ॥ पूर्वं समभवत्तत्र गस्त्यो भगवानृषिः । नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥ तद्धि तेजस्तु मित्रस्य उर्वश्याः पूर्वमाहितम् । तस्मिन् समभवत् कुम्मे ततेनो यत्र वारुणम् ॥ कस्यचित्त्वथ कालम्य मित्रावरुणसंभवः । वसिष्ठस्तेजसा युक्तो जज्ञे चेक्ष्वाकुदैवतम् ॥ तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् । वत्रे पुरोहितं सौम्य वंशस्यास्य भवाय नः ।। एवं वपूर्वदेहस्य वसिष्ठम्य महात्मनः । कथितो निर्गमः सौम्य निमेः शृणु यथा भवेत् ॥ ९ दृष्ट्वा विदेहं राजानमृपयः सर्व एव ते । तं नतो योजयामासुर्यागदीक्षां मनीषिणः ॥ तं च देहं नरेन्द्रम्य रक्षन्ति स्म द्विजोत्तमाः। गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥११ ततो यज्ञे समाप्ते तु भृगुम्तत्रेदमब्रवीत् । आनयिष्यामि ने चेनम्तुष्टोऽस्मि तव पार्थिव ।। १२ सुप्रीनाश्च सुराः सर्वे निमेश्चम्तिथाब्रुवन् । वरं वरय राजर्षे क ते चेतो निरूप्यताम् ॥ १३ एवमुक्तः सुरैः सर्वनिमेश्चतम्तदाब्रवीत् । नेत्रपु सर्वभूतानां बसेयं सुरसत्तमाः ॥ १४ बाढमित्येव विबुधा निमेश्चनम्तदाब्रुवन् । नेत्रेषु सर्वभूतानां वायुभूनश्चरिष्यसि ।। १५ त्वत्कृते च निमिष्यन्ति चक्षुपि पृथिवीपते । वायुमूतेन चरना विश्रमार्थ मुहुर्मुहुः ।। १६ एवमुक्ता तु विबुधाः सर्वे जग्मुर्यशागतम् । ऋषयोऽपि महात्मानो निमे समाहरन् ॥ १७ अगणिं तत्र निक्षिप्य मथने चक्रगेजसा । मन्त्रहोममहात्मानः पुत्रहेतोनिमेस्तदा ॥ अरण्यां मध्यमानायां प्रादुर्भूतो महातपाः । मथनामिथिरित्याहुर्जननाजनकोऽभवत् ।। १०. यम्माद्विदेहात् संभूती वैदेहम्नु ननः स्मृतः । एवं विदेहगजश्व जनकः पूर्वकोऽभवत् ।। २० मिथिर्नाम महातेजास्तेनायं मैथिलोऽभवत ॥ इति सर्वमशेपनी मया कथितं संभवकारणं तु सौम्य । नृपपुंगव शापजं द्विजस्य द्विजगापाच्च यदद्भुतम् नृपस्य । २१ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उमरकाण्डे निमिनिमीषीकारणं नाम सप्तपञ्चाशः सर्ग: अष्टपञ्चाशः सर्गः ययातिशापः एवं ब्रुवति रामे तु लक्ष्मणः परवीन्हा । प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ १ महदद्भुतमाश्चर्य विदेहस्य पुरातनम् । निवृत्तं राजशार्दूल वसिष्ठम्य निमेः सह ॥ निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः । न क्षमा कृतवान् राजा वसिष्ठम्य महात्मनः ।। एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः । उयाच लक्ष्मण वाक्यं सर्वशास्त्रविशारदम् ॥ रामो रमयतां श्रेष्ठो प्रातरं दीप्ततेजसम् । न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ।। सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना । सत्त्वानुगं पुरस्कृत्य तं निबोध समाहितः ॥६ १. हिताय ति. २. इदं पद्यम् च. नास्ति । ३. मुनेच ह सि.