पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकपञ्चाशः सर्गः १०२९ काम्यया भगवन् हि वंशस्यास्य गतिं मम । तच्छ्रुत्वा ज्याहृतं वाक्य राज्ञो दशरथस्य च ॥ दुर्वासाः सुमहातेजा न्याहर्तुमुपचक्रमे । शृणु राजन् पुरावृत्तं तदा दैवासुरे युधि । दैत्याः सुरैर्मय॑माना भृगुपत्नीं समाश्रिताः । तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ।। १२ तया परिगृहीतांस्तान् दृष्ट्वा क्रुद्धः सुरेश्वरः । चक्रेण शितधारेण भृगुपत्न्याः शिरोऽहरत् ॥१३ ततस्तां निहतां दृष्ट्वा पत्नीं भूगुकुलोद्वहः । शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ १४ यस्मादवध्यां मे पलीमवधी: क्रोधमूर्छिनः । तस्मात्त्वं मानुषे लोके जनियसि जनार्दन ॥ १५ तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् । शापाभिहतचेतः स म्वात्मना भावितोऽभवत् ॥ अर्चयामास तं देवं भृगुः शापेन पीडितः । तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः ।। लोकानां संप्रियार्थं तु तं शापं ग्राह्यमुक्तवान् । इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ॥ १८ इहागतो हि पुत्रत्वं तव पार्थिवसत्तम । राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ॥ तत्फलं प्राम्प्स्यते चापि भृगुशापकृतं महत् । अयोध्यायाः पती रामो दीर्घकालं भविष्यति ॥ तत्र पत्नी वियोगं च दीर्घकालं गमिष्यति । सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य येऽनुगाः ॥२१ दश वर्षमहस्राणि दश वर्षशतानि च । रामो गज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ २२ समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः । राजवंशांश्च बहुशो बहून् संस्थापयिष्यति ॥ २३ द्वौ पुत्रौ तु भविष्येने सीतायां राघवम्य तु । अन्यत्र न त्वयोध्यायां सत्यमेतन्न संशयः ॥२४ सीतायाश्च ततः पुत्रावभिपक्ष्यति राघवः । स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।। २५ आख्याय सुमहातेजास्तृप्णीमासीन्महामुनिः । तृष्णीभूते तदा तम्मिन् राजा दशरथो मुनौ ।। अभिवाद्य महात्मानो पुनरायात पुरोत्तमम् । एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ॥ २७ श्रुतं हृदि च निक्षिप्त नान्यथा नद्भविष्यति । एवं गते न संतापं कर्तुमर्हसि राघव ।। २८ सीतार्थे राघवार्थे वा दृढो भव नरोत्तम । श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम्॥ २९ प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् । ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।। अस्तमर्के गते वासं केशिन्या तायथोषतुः । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् उत्तरकाण्डे दुर्वासोवाक्यकथनं नाम एकपञ्चाशः सर्ग: अस्यानन्तरम् , पुनरेव ययौ शाप ऋषि- मा भगोऽनृतं वाक्यं नाभविष्य द्विजस्य ते। दुमददुर्मदः। धिणुशक्तिमविद्वान् स प्रपेदे शाप- संमोचयित्वा पापास्वामहमेनं गृहीतवान् ॥ - इति मूढताम् ॥ चिरकालमसंशोऽभूत शापाद्धन्धि]तमसा- क. ग.। एवं शाप भृगुदत्वा विष्णोः स्मृत्वा च घृतः । दृष्ट्वा सप्तर्षयचयं कृपां चक्रुश्च शक्तिभिः॥ वैभवम् ॥ इति च. अधिकं प्रक्षिप्त दृश्यते । शप्तशाप: पुनस्तस्थौ इदं भृगुरथाब्रवीत् । रक्षध्वं २. इदमर्धम् ति. च. नास्ति। मामृषिश्रेष्टा: शापान्मत्पुरतः स्थिताः ॥ श्रुत्वा तु ३. सीतायाथ ततः पुत्रायभिषेक्ष्यति भृगुवाक्यं तमाहुश्च परमर्षयः । स्तुत्यै ब्रह्मेशशकायः राघवः । अन्यत्र न त्वयोध्यार्या मुनेस्तु वचनं स्तूयमानमहनिशम् ॥ नारायणं प्रपद्यस्व स्तोत्रैरेव तथा ॥ इति एक पधै भधिकं ति। च सुबत । मुगुणाराषितो विष्णुरागतस्त्वरितं भृगुम् ।। ४. गोमस्याम् क.। १.