पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२४ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे प्रययौ शीघ्रतुरगै रामस्साझामनुस्मरन् । अब्रवीच तदा सीता लक्ष्मणं लक्ष्मिवर्षनम् ।। अशुभानि बहून्येव पश्यामि रघुनन्दन ! नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।। हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये । औत्सुक्यं परमं चापि अधृतिश्च परा मम ।। १५ शून्यामेव च पश्यामि पृथिवीं पृथुलोचन । अपि स्वस्ति भवेत्तस्य प्रातुस्ते मातृवत्सल ॥ १६ श्वश्रूणां चैव मे वीर सर्वासामविशेषतः। पुरे जनपदे चैव कुशलं प्राणिनामपि ।। १७ इत्यनलिकृता' सीता देवता अभ्ययाचत । लक्ष्मणोऽर्थं तु तं श्रुत्वा शिरसावन्द्य मैथिलीम् ।। शिवमित्यत्रवीद्धृष्टो हृदयेन विशुष्यता । ततो वासमुपागम्य गोमतीतीर आश्रमे ॥ प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् । योजयस्व स्थं शीघ्रमध भागीरथीजलम् ।। २० शिरसा धारयिष्यामि व्यम्बकः पर्वते यथा'। सोऽश्वान् रज्ज्वाथ चतुरो रथे युवा मनोजवान् ।। आरोहस्वेति वैदेहीं मूतः प्राञ्जलिरब्रवीत् । सा तु सूतस्य वचनादारुरोध रथोत्तमम् ॥ २२ सीता सौमित्रिणा साधं सुमन्त्रेण च धीमता। आससाद विशालाक्षी गङ्गां पापविनाशिनीम ॥ अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् । निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ॥२४ सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् । उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ २५ जाह्नवीतीरमासाद्य चिराभिलषितं मम । बकाले किमर्थ मां विषादयसि लक्ष्मण ।। नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ । कञ्चिद्विनाकृतम्तेन द्विगत्रं शोकमागतः ।। ममापि दयितो रामो जीविनादपि लक्ष्मण । न चाहमेवं शोचामि मैं न्वं बालिशो भव ॥२८ तारयस्व च मां गङ्गां दर्शयम्व च तापसान् । ततो मुनिभ्यो दाम्यामि वामांम्याभरणानि च । ततः कृत्वा महर्षीणां यथावदभिवादनम् । तत्र चैकां निशामुष्य यास्यामस्तां पुरी पुनः ॥ ३० ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् । त्वरते हि मनो द्रष्टुं रामं रमयनां वरम् ॥ तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे । नाविकानाहयामास लक्ष्मणः परवीरहा ॥ ३२ इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयोऽब्रुवन् । तितीघुर्लक्ष्मणो गङ्गा शुभां नावमुपारुहत ।। गङ्गां संतारयामास लक्ष्मणस्तां समाहितः ।। इत्यार्षे धीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे सीतागङ्गातीरनयनं नाम षट्चत्वारिंशः सर्ग: २७ सप्तचत्वारिंशः सर्गः रामशासनकथनम् अथ नावं सुविस्तीर्णा नैषादी राघवानुजः । आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ।। १ सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । उवाच शोकसंतप्तः प्रयाहीति च नाविकम् ॥ २ ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः । उवाच मैथिली वाक्यं प्राञ्जलिर्वाष्पसंप्लुतः ।। ३ कृताञ्जलिः इत्यर्थः। १. त्रियम्बक सौजसा ति.। 1.