पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्चत्वारिंशः सर्गः १०२३ पतत्येवाघमाँल्लोकान् यावच्छब्दः प्रकीर्त्यते । अकीर्तिनिन्धते देवैः कीर्तिलोकेषु पूज्यते ॥१३ कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् । अप्यहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः ॥ अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् । तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे । न हि पश्याम्यहं भूतं किंचिदुःखमतोऽधिकम् । श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।। आरुह्य सीतामारोप्य विषयान्ते समुत्सृज । गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ॥१७ आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः । तत्रैनां विजने देशे विसृज्य रघुनन्दन ॥ शीघ्रमागच्छ भद्रं ते कुरुप्व वचनं मम । न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथंचन ॥१९ तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा। अप्रीतिर्हि पग मह्यं त्वय्येतत् प्रतिवारिते ॥२० शापिता हि मया यूयं भुजाभ्यां जीवितेन च । ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन ॥ २१ अहिना नाम ते नित्यं मदभीष्टविघातनात् । मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।। इतोऽद्य नीयनां सीता कुरुष्व वचनं मम । पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान् ॥ २३ पश्येयमिति तम्याश्च कामः संवर्त्यतामयम् । एवमुक्त्वा तु काकुत्स्थो बाप्पेण पिहिताननः ॥ प्रविवेश स धर्मात्मा प्रातृभिः परिवारितः । शोकसंलमहृदयो निशश्वास यथा द्विपः ।। २५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे सीताममुत्सर्गादेशो नाम पञ्चचत्वारिंशः सर्ग: ३ षट्चत्वारिंशः सर्गः सीतागङ्गातीरनयनम् ततो रजन्यां न्युष्टायां लक्ष्मणो दीनचेतनः । सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ।। १ सारथे तुरगाशीघ्रं योजयम्व रथोत्तमे । स्वास्तीणं राजभवनात् सीतायाश्चासनं कुरु ।। २ सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् । मया नेया महर्षीणां शीघ्रमानीयतां रथः ।। सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः । रथं सुरुचिरप्रख्यं वास्तीर्ण सुखशय्यया ।। आनीयोवाच सौमित्रि मित्राणां मानवर्धनम् । रथोऽयं समनुप्राप्तो यत् कार्य क्रियतां प्रभो ॥५ एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः । प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ।। त्वया किलैप नृपतिर्वरं वै याचितः प्रभुः । नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ॥ गङ्गातीरे मया देवि ऋषीणामाश्रमाञ्शुभान् । शीघ्रं गत्वा तु वैदेहि शासनात् पार्थिचस्य न ।। अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि । एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना । प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् । वासांसि च महार्हाणि रत्नानि विविधानि च ॥ १० गृहीत्वा तानि वैदेही गमनायोपचक्रमे । इमानि मुनिपनीनां दास्याम्याभरणान्यहम् ।। ११ वस्त्राणि च महार्हाणि धनानि विविधानि च । सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।। १. पिहितेक्षण: तिः। ६ ७ २