पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२२ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे गतो हि लक्ष्मणः पूर्वं भरतब्ध महायशाः । श्रुत्वा तु वचनं तस्य शत्रुनः परमासनात् ॥ १० शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः । द्वाःस्वस्त्वागम्य रामाय सर्वानेव कृतालालिः ॥ ११ निवेदयमास तदा भ्रातृन् स्वान् समुपस्थितान् । कुमारानागतालश्रुत्वा चिन्ताव्याकुलितेन्द्रियः। अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् । प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ॥ १३ एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ! आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्रतेजसः ॥ १४ प्रहाः प्राजलयो भूत्वा विविशुस्ते समाहिताः । ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।। सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् । बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।। हतशोमं यथा पद्मं मुखं वीक्ष्य च तस्य ते । ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्षभिः ।। तम्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् । तान् परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ॥ आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह । भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ॥१९ भवद्विश्च कृतं राज्यं पालयामि नरेश्वराः । भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ॥२० संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः । तथा वदति काकुत्स्थे सवधानपरायाणाः ।। २१ उद्विममनसः सर्वे किं नु राजाभिधास्यति ।। इत्यार्षे श्रीमद्रामायाणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनिकायां संहितायाम् उत्तरकाण्डे लक्ष्मणाद्यानयनं नाम चतुश्चत्वारिंशः सर्गः पञ्चचत्वारिंशः सर्गः सीतासमुत्सर्गादेशः तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् । उवाच वाक्यं काकुत्स्थो मुग्वेन परिशुष्यता ॥ १ सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा । पौराणां मम सीतायां यादृशी वर्तते कथा ॥२ पौरापवादः सुमहांस्तथा जनपदस्य च । वर्तते मयि बीमत्सा सा मे मर्माणि कृन्तति ।। ३ अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् । सीतापि सत्कुले जाता जनकानां महात्मनाम् ।। जानासि त्वं यथा सौम्य दण्डके विजने वने । रावणेन हृता सीता स च विध्वंसितो मया ।।५ तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति । अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ।। ६ प्रत्ययार्थ ततः सीता विवेश ज्वलनं तदा। प्रत्यक्षं तत्र सौमित्रे देवानां हव्यवाहनः ॥ अपापां मैथिलीमाह वायुश्चाकाशगोचरः। चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ॥ ८ ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् । एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ । लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता'। अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ॥ ततो गृहोवा वैदेहीमयोध्यामहमागतः । अयं तु मे महान् वादः शोकश्च हृदि वर्तते ।। ११ पौरापवादः सुमहांस्तथा जनपदस्य च । अकीर्तिर्यस्य गीयेत लोके भूतम्य कस्यचित् ।। १२ ७ १. निवेदिना, ति.