पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३ ५ ८ ९ चत्वारिंशः सर्गः १०१७ अङ्गदं च महाबाहो प्रीत्या परमया युतः । पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् । कुमुदं चैव दुर्धर्ष नीलं चैव महाबलम् ।। वीरं शतवलिं चैव मैन्दं द्विविदमेव च । गजं गवाक्षं गवयं शरभं च महाबलम् ॥ पश्य प्रीतिसमायुक्तो गन्धमादनमेव च । ऋषमं च सुविक्रान्तं जाम्बवन्तं महाबलम् ॥ ६ ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः। पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ।। एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः । विभीषणमुवाचाथ रामो मधुरया गिरा ।। लङ्कां प्रशाधि धर्मेण धर्मज्ञम्त्वं मतो मम । पुरस्य राक्षसानां च मातुःश्रवणस्य च ॥ मा च बुद्धिमधर्मे त्वं कुर्या राजन् कथंचन । बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ अहं च नित्यशो राजन् सुग्रीवसहितम्त्वया । स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ।। रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः । सात्रु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ।। तव बुद्धिमहाबाहो वीर्यमद्भुतमेव च । माधुर्यं परमं राम स्वयंभावि नित्यदा ॥ तेषामेवंब्रुवाणानां वानराणां च रक्षमाम । हनूमान् प्रणतो भूत्वा राघवं वाक्यमब्रवीत् ॥१४ स्नेहो मे परमो राजंम्त्वयि तिष्ठनि नित्यदा। भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।। याबदामकथा वीर चरिष्यति महीनले । तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।। १६ यञ्चतच्चरितं दिव्यं कथा ते रघुनन्दन । तन्ममाप्सरसो नाम श्राक्येयुनरर्षभ ।। १७ तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो। उत्कण्टां तां हरिष्यामि मेघलेखामिवानिलः ॥१८ एवं ब्रुवाणं रामम्नु हनूमन्तं वरासनान् । उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥ एवमेतत् कपिश्रेष्ठ भविता नात्र संशयः । चरिष्यति कथा यावदेपा लोके च मामिका ॥ २० तावते भविता कीर्तिः शरीरऽप्यसबस्तथा। लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा । एकैकस्योपकारस्य प्राणान् दाम्यामि ते कपे। शेषस्येहोपकाराणां भवाम ऋणिनो वयम् ॥ मदङ्ग जीर्णतां यातु यत्त्वयोपकृतं करें । नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम् ।। २३ ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात् स राघवः । वैदूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥२४ तेनोरसि निबद्धेन हारेण महता कपिः । रराज हेमशैलेन्द्रश्चन्द्रेणाकान्तमस्तकः ।। २५ श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः । प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥२६ सुग्रीवः स च रामेण निरन्तरमुरोगतः। विभीषणश्च धर्मात्मा सर्वे ते बाप्पविक्लवाः ॥ २७ सर्वे च ते बाप्पकलाः साश्रुनेत्रा विचेतसः । संमूढा इव दुःखेन त्यजन्तो राघवं तदा ॥ २८ कृतप्रसादास्तेनैवं राघवेण महात्मना । जग्मुः स्वं स्वं गृहं सर्वे देही देह मिव त्यजन् ॥ २९ ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् । क्षराजं च दुघर्ष ति.। ३. प्रवमो. प्र. एतदनन्तरे, केस िशरभं शुम्भं शंखचूड ४. शेषस्येत्यादि कपे इत्यन्तम् च. प्रक्षिप्तम् । महाबलम् । इति अर्थ अधिकं दृश्यते ति. 128 २.