पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९९
पञ्चत्रिंशः सर्गः


दाराः पुत्राः पुरं राष्ट्रं भोगाच्छदनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥४१॥
ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौ । प्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥४२॥
अन्योन्यं लम्भितकरौ तनस्तौ हरिराक्षसौ । किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ॥४३॥
स तत्र मासमुषितः सुप्रीव इव रावणः । अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ॥४४॥
एवमेतत् पुरा वृत्तं वालिना रावणः प्रभो । घर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ॥४५॥
बलमप्रतिमं राम वालिनोऽभवदुत्तमम् । सोऽपि त्वया विनिर्दग्धो वह्निना शलभो यथा ॥४६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे वालिरावणसख्यं नाम चतर्स्त्रिण्शः सर्गः


पश्चत्रिंशः सर्गः

हनुमदुत्पत्तिः

अपृच्छत तदा रामो दक्षिणाशाश्रये मुनिम् । प्राञ्जलिर्विनयोपेत इदं वचनमर्थवत् ॥१॥
अतुलं बलभेतद्वै. वालिनो रावणस्य च । न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥२॥
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥३॥
दृष्ट्वैव सागरं वीक्ष्य सीदन्तो कपिवाहिनीम् । समाश्वास्य महाबाहुर्याजनानां शतं प्लुतः ॥४॥
धर्षयित्वा पुरी लङ्कां रावणान्तपुरं तदा । दृष्ट्वा संभाषिना चापि सीता ह्या श्वासिता तथा ॥५॥
सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः । एते हनुमता तत्र ह्येकेन विनिपातिताः ॥६॥
भूयो बधाद्विमुक्तंन भीषयित्वा दशाननम् । लङ्का मस्मीकृता येन पावकेनेव मेदिनी ॥७॥
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥८॥
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥९॥
हनूमान् यदि नो न स्याद्वानराधिपते. सखा । प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान् भवेत् ॥१०॥
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया । तदा पैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥११॥
न हि वेदितवान् मन्ये हनूमानात्मनो बलम् । यदृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥१२॥
एतन्मे भगवन् सर्वं हनूमति महामती । विस्तरेण यथातत्त्वं कथयामरपूजित ॥१३॥
राघवस्य वचः श्रुन्चा हेतुयुक्तमृषिम्तदा। हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥१४॥
सत्यमेतद्रघुश्रेष्ठ यद्बीपि हनूमतः । न बले विद्यते तुल्यो न गतौ न मतौ परः ॥१५॥
अमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा । न वेत्ता हि बलं येन बली सन्नरिमर्दनः ॥१६॥
बाल्येऽप्येतेन यत् कर्म कृतं राम महाबल । तन्न वर्णयितुं शक्यमिति बालतयास्स ते ॥१७॥
यदि वास्ति अभिप्रायस्तच्छ्रोतुं तव राघव । समाधाय मतिं राम निशामय वदाम्यहम् ॥ १८॥
सूर्यदत्तवरः स्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥।१९॥
तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २०॥