पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९८
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

पुष्पकादवरुह्याथ रावणोऽञ्जनसन्निभः । ग्रहीतु वालिनं तूर्णं निःशब्दपदमाव्रजत् ॥१३॥
यदृच्छया तदा दृष्टो वालिनापि स रावणः । पापाभिप्रायकं दृष्ट्वा चकार न तु संभ्रमम् ॥१४॥
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा । न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥१५॥
जिघृक्षमाणमायान्तं रावणं पापचेतसम् । कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन् महार्णवान्॥१६॥
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् । लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥१७॥
इत्येवं मतिमास्थाय वाली मौनमुपाश्रितः । जपन् वै नैगमान् मन्त्रांस्तस्थौ पर्वतराडिव ॥१८॥
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ । प्रयत्नवन्तौ तत् कर्म ईहतुर्बलदर्पितौ ॥१९॥
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् । पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः ॥२०॥
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः। खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥।२॥
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः । जहार रावणं वाली पवनस्तोयदं यथा ॥२२॥
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् । मुमोक्षयिषवो वालिं रक्माणा अभिद्रुताः ॥२३॥
अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः । अन्वीयमानो मेघौधैरम्बरस्थ इवांशुमान् ॥२४॥
तेऽशक्नुवन्तः संप्राप्तुं वालिनं राक्षसोत्तमाः । तम्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिनाः ॥२५॥
वालिमार्गादपाक्रामन् पर्वतेन्द्रा हि गच्छनः । किं पुनर्जीवितप्रेप्युर्बिभ्रद्वै मांसशोरितम् ॥२६॥
अपक्षिगणसंपातान् वानरेन्द्रा महाजयः । क्रमशः सागरान् सर्वान सन्ध्याकालमवन्दन ॥२७॥
सभाज्यमानो भूतैस्तु खेचरैः खेचरोत्तमः । पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥२८॥
तस्मिन् सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः। उत्तरं सागरं प्रायाद्वहमनो दशानन: ॥२९॥
बहुयोजनसादृस्रं वहमानो महाहरिः । वायुवच्च मनोवञ्च जगाम मह शत्रुणा ॥३०॥
उत्तरे सागर सन्ध्यामुपासित्वा दशाननम् । वहमानोऽगमद्वाली पूर्वं वै स महोदधिम् ॥३१॥
तत्रापि सन्ध्यामन्वास्य वासविः स हरीश्वरः । किष्किन्धामभितो गृह्य गवणं पुनरागमत् ॥३२॥
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः । रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ॥३३॥
रावणं तु मुमोचाथ स्वकक्षात् कपिसतमः । कुतस्त्वमिति चोवाच प्रहसन् रावणं मुहुः ॥३४॥
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः । राक्षसेन्द्रो हरीन्द्रं नमिदं वचनमब्रवीत् ॥३५॥
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः । युद्धेप्सुरिह संप्राप्तः स चाद्यासादितस्त्वया ॥३६॥
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च । येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान् ॥३७॥
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् । मां चैवोद्वमानस्तु कोऽन्यो वीरः क्रमिष्यति ॥ ३८॥
त्रयाणामेव भूतानां गतिरेपा प्लवङ्गम । मनोऽनिलसुपर्णानां तव चात्र न संशयः ॥३९॥
सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव । त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥४०॥