पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९७
चतुस्त्रिंशः सर्गः

अतुलं ते बलं येन दशग्रीवस्त्वया जितः । भयाद्यस्योपतिष्ठतां निष्पन्दौ सागरानिलौ ॥१५॥
सोऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः । पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया ॥१६॥
मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सं दशाननम् । पुलम्त्याज्ञां प्रगृह्योचे न किंचन वचोऽर्जुनः ॥१७॥
मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत ॥

  स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः ।
  अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥१८॥

पुलस्त्येनापि संत्यक्तो राक्षसेन्द्रः प्रतापवान् । परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥१९॥
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः । मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम है ॥२०॥
एवं स रावणः प्राप्तः कार्तवीर्यात् प्रधर्षणम् । पुलस्त्यावचनाञ्चापि पुनर्मुक्तो महाबलः ॥२१॥
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन । नावज्ञा हि परे कार्या य इच्छेत् 'प्रियमात्मनः ॥२२॥
  ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैन्त्रीम् ।
  पुनर्नृपाणां कदनं चकार चचार सर्वा पृथिवीं च दर्पात् ॥२३॥

इत्यार्षे श्रीमदामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे रावणविमोक्षो नाम त्रयस्त्रिंशः सर्ग:



चतुस्त्रिंशः

वालिरावणमस्व्यम्

अर्जुनेन विमुक्तम्तु रावणो राक्षसाधिपः । चचार पृथिवी सर्वामनिर्विण्णस्तथा कृतः ॥१॥
राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् । रावणस्तं समासाद्य युद्ध ह्रयति दर्पितः ॥२॥
ततः कदाचित् किष्किन्धां नगरी वालिपालिताम् । गत्या ह्वयति युद्धाय वालिनं हेममालिनम्॥३॥
ततस्तु वानरामात्यस्तारस्ताराफ्तिा प्रभुः । उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥४॥
राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् । कोऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥५॥
चतुर्भ्योऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥६॥
एतानस्थिचयान् पश्य य एते शङ्खपाण्डराः । युद्धार्थिनामिमे राजन् वानराधिपतेजसा ॥७॥
यद्वामृतरसः पीतस्त्वया रावण राक्षस । तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥८॥
पश्येदानीं जगचित्रमिमं विश्रवसः सुत । इमं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यत ॥९॥
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् । वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव पावकम् ॥ १०॥
स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः। पुप्पकं तत् समारुह्य प्रययौ दक्षिणार्णवम् ॥११॥
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् । रावणो चालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ॥१२॥