पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९१
एकत्रिंशः सर्गः

 
सा त्वया घर्षिता शक्र कामार्तेन समन्युना । दृष्टस्त्वं च तदा तेन ह्या श्रमे परमर्षिणा ॥३२॥
ततः क्रुद्धेन तेनासि शप्तः परमतेजसा । गतोऽसि येन देवेन्द्र दशाभागविपर्ययम् ॥३३॥
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् । तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि ॥३४॥
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तिनः । मानुषेष्वपि लोकेषु भविष्यति न संशयः ॥३५॥
तत्राधं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति । न च ते स्थावरं स्थानं भविष्यति न संशयः ॥३६॥
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति। एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत् ॥३७॥
तां तु भार्यां सुनिर्भर्त्स्य सोऽब्रवीत सुमहातपाः । दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ॥३८॥
रूपयौवनसंपन्ना यस्मात्त्वमनवस्थिता । तस्माद्रूपवती लोके न त्वमेका भविष्यसि ॥३९॥
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः। यत्तदेकं समाश्रित्य विभ्रमोऽयमुपस्थितः ॥४०॥
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः । सा तं प्रसादयामास महर्षिं गौतमं तदा ॥४१॥
अज्ञानाद्धर्षिता नाथ त्वरूपेण दिवौकसा । न कामकाराद्विप्रर्षॆ प्रसादं कर्तुमर्हसि ॥४२॥
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः | उत्पल्यति महातेजा इक्ष्वाकूणां महारथः ॥।४३ ॥
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति । ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः ॥४४॥
तं द्रक्ष्यसि यदा भद्र नत पूता भविष्यसि । स हि पावयितुं शक्तस्त्वया यदुष्कृतं कृतम् ॥४५॥
तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि । वत्स्यसि त्वं मया मार्धं तदा हि वरवर्णिनि ॥४६॥
एवमुत्तवा म विप्रर्षिराजगाम स्माश्रमम् । तपश्चचार सुमहत् सा पत्नि ब्रह्मवादिनः ॥४७॥
शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् । तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ॥४८॥
तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव । शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः ॥।४९॥
पावितस्तेनत्ज्ञेस्नः यास्यसे त्रिदिवं ततः । पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ॥५०॥
नीतः सन्निहितश्चैव आर्यकेण महोदधौ । एत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ॥५१॥
पुनस्त्रिदिवमाकामदन्वशासच्च देवराट् । एतदिन्द्रजितो नाम बलं यत् कीर्तितं मया ॥ ५२॥
निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये तु किं पुनः । आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा ॥५३॥
अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा । विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ॥ ५४॥
आश्चर्यं स्मारितोऽस्म्यद्ययत्तद्दृष्टं पुरातनम् । अगस्त्यं त्वब्रवीद्रामः सत्यमेत्तच्छ्रुतं च मे ॥४९॥
एवं राम समद्भूतो रावणो लोककण्टकः । सपुत्रो येन संग्रामे जितः शक्रः सुरेश्वरः॥५०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाम्ये चतुर्विशतिसहत्रिकायां संहितायाम्

उत्तरकाण्डे इन्द्रपराजयकारणकथनं नाम त्रिंशः सर्गः



एकत्रिंशः सर्गः


रावणनर्मदावगाहः

    
ततो रामो महातेजा विस्मयात पुनरेव हि । उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥१॥