पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः।। ५
देवतानां वचः श्रुत्वा सर्वलोकपितामहः । सान्त्वयन् मधुरैर्वाक्यैस्त्रिशानिदमब्रवीत् ॥ ६
शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु । तस्या वचनमक्लिष्टं सत्यमेव न संशयः ।। ७
इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः । जनयिष्यति देवानां सेनापतिमरिंदमम् ।। ८
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् । उमायास्तद्बहुमतं भविष्यति न संशयः ।। ९
तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥ १०
ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः॥ ११
देवकार्यमिदं देव संविधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ।। १२
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम् ।। १३
अग्नेस्तु वचनं श्रुत्वा दिव्यं रूपमधारयत् । दृष्ट्वा तन्महिमानं स समन्तादवकीर्यत ॥ १४
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ १५
तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् । अशक्ता धारणे देव तव तेजः समुद्धतम् ॥ १६
दह्यमानाग्निना तेन संप्रव्यथितचेतना । अथाब्रवीदिदं गङ्गां सर्वदेवपुरोहितः ।। १७
इह हैमवते पादे गर्भोऽयं संनिवेश्यताम् । श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ।। १८
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ । यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् ॥ १९
काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् । ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत ।। २०
मलं तस्याभवत्तत्र त्रपुसीसकमेव च । तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ २१
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् । सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् ।। २२
जातरूपमिति ख्यातं तदाप्रभृति राघव । सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ॥ २३
तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् । तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः ।। २४
क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् । ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ॥ २५
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः। ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।। २६
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः । तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।। २७
स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् । स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् ॥ २८
कार्तिकेयं महाभागं काकुत्स्थं ज्वलनोपमम् । प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।। २९
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः । गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ॥ ३०
अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः । सुरसेनागणपतिं ततस्तममलद्युतिम् ।। ३१