पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९०
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

तत्र रावणमासाद्य पुत्रप्रातृभिरावृतम् । अब्रवीद्गगने तिष्ठन् सामपूर्व प्रजापतिः ॥२॥
वत्स रावण तुष्टोऽस्मि पुत्रस्य तव संयुगे। अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा ॥३॥
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा । कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै ॥४॥
अयं च पुत्रोऽतिबलस्तव रावण वीर्यवान् । जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥५॥
बलवान् दुर्जयश्चैव भविष्यत्येव राक्षसः । यं समाश्रित्य ते राजन् स्थापितास्त्रिदशा वशे ॥६॥
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः । किं चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ॥७॥
अथाब्रवीन्महातेजा इन्द्रजित् समितिंजयः । अमरत्वमहं देव वृणे यद्येष मुच्यते ॥८॥
चतुष्पदां खेचराणामन्येषां च महौजसाम् । वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ॥९॥
सर्वेऽपि जन्तवोऽन्योन्यं भेतव्ये सति बिभ्यति । अतोऽत्र लोके संर्वषां सर्वस्माच्च भवेद्भयम् ॥१०॥
ततोऽब्रवीन्महातेजा मेघनादं प्रजापतिः । नास्ति सर्वामरत्वं हि कम्यचित प्राणिनो भुवि ॥११॥
चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् । श्रुन्चा पितामहेनोक्तमिन्द्रजित् प्रभुणाव्ययम् ॥११॥
अथाब्रवीत् स तत्रस्थं मेघनादो महाबलः । श्रूयतां वा भवेत् सिद्धिः शतक्रतुविमोक्षणे ॥१३ ॥
ममेष्टं नित्यशो हव्यैर्मन्त्रैः संपूज्य पावकम् । संग्राममवतर्तुं च शत्रु निर्जयकाङ्क्षिणः॥१४॥
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः । तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वर ॥ १५॥
तस्मिन् यद्यसमाप्ते च जप्यहोमे विभावसौ । युध्येयं देव संग्रामे नदा मे स्याद्विनाशनम् ॥१६॥
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । विक्रमेण मया त्वेतामरत्वं प्रवर्तितम् ॥।१७॥
एवमस्त्विति तं चाह वाक्यं देवः पितामहः । मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं मुगः ॥१८॥
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः । इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥१९॥
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः । शतक्रतो किमु पुरा करोति स्म सुदुष्करम् ॥२०॥
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तदा प्रभो । एकवर्णाः समामाषा एकरूपाश्च सर्वश.॥२१॥
तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा । ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् ॥२२॥
सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे । यद्यत् प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥१४॥
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥२४॥
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता । अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ॥२५॥
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ । भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् ॥२६॥
त्वं तु शक्र तदा नारी जानीषे मनसा प्रभो । स्थानाधिकतया पत्नी ममैषेति पुरंदर ॥२७॥
सा मया न्यासभूता तु गौतमस्य महात्मनः । न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ॥२८॥
ततस्तस्य परिज्ञाय महास्थैर्य महामुनेः । ज्ञात्वा तपसि सिद्धिं च पल्यर्थं स्पर्शिता तदा ॥२९॥
स तया सह धर्मात्मा रमते स्म महामुनिः । आसन्निराशा देवास्तु गौतमे दत्तया तया ॥३० ॥
संक्रुद्धस्त्वं हि धर्मान्मन् गत्वा तस्याश्रमं मुनेः । दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥३१॥