पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८७
अष्टाविंशः सर्गः

स तु दिव्यो महाभीमः सज्ज एव महारथः । उपस्थितो मातलिना वाह्यमानो महाजवः ॥२४॥
ततो मेघा रथे तस्मिंस्तडिद्वन्तो महाबलाः । अग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥२५॥
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः । ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥२६॥
रुदैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः । वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः॥।२७॥
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ । भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥२८॥
एतस्मिन्नन्तरे वीरो दशग्रीवः प्रतापवान् । आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥२९॥
पन्नगैस्तु महाभोगैर्वेष्टितं रोमहर्पणैः । तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥३०॥
दैत्यैनिशाचरैश्चैव स रथः परिवारितः । समराभिमुखो दैत्यो महेन्द्रं सोऽभ्यवर्तत ॥३१ ॥
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः । सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत्॥३२॥
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥३३॥
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोधतः । नाज्ञायत तदा 'युद्धे सह केनाप्ययुध्यत ॥ ३४॥
दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः । येन केनैव संरब्धस्ताडयामास वै सुरान् ॥३५॥
नतो रुदैर्महाघोरै : संगम्याथ निशाचरः । प्रयुद्धम्तैश्च संग्रामे क्षतः शस्त्रनिरन्तरम् ॥३६॥
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् । विद्युत्स्तनितनिर्घोषो धारावानिव तोयदः ॥ ३७॥
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः । रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥३८॥
केचिद्विनिहताः कृताश्चेष्टन्ति स्म महीतले । वाहनेष्यवसक्ताश्च स्थिता एवापरे रणे ॥३९॥
स्थान्नागान् ग्यगनुष्ान् पन्नगांस्तुरगान् रणे। शिशुमारान् वराहांश्च पिशाचवदनांस्तथा ॥४०॥
तान् समालिङ्गय बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः। देवैस्तु शस्त्रसंभिन्ना मम्रिरे च निशाचराः॥४१॥
चित्रकर्म इवाभाति स तेषां रणसंप्लवः । निहतानां प्रमत्तानां राक्षसानां महीतले ॥।४२॥
शोणितोदकनिष्यन्दकङ्कगृध्रसमाकुला । प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥४३॥
एतस्मिन्नन्तरे क्रुद्धा दशग्रीवः प्रतापवान्। निरीक्ष्य तद्दलं कृत्स्नं दैवतैर्विनिपातितम् ॥४४॥
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् । त्रिदशान् समरे निघ्नञ्शक्रमेवाभ्यवर्तत ॥४५॥
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् । यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश॥४६॥
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । निपातयामास शरान् पावकादित्यवर्चसः ॥४७॥
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः । शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥४८॥
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । न ज्ञायते तदा किंचित् सर्वं हि तमसावृतम्॥४९॥

इत्याः श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहत्रिकायां संहितायाम्

उत्तरकाण्डे जयन्तापवाहनं नाम अष्टाविंशः सर्गः