पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८६
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

गदया भस्मतां नीतं निहतस्य रणाजिरे । तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततः ॥५१॥
व्यद्रवन् सहिताः सर्वे क्रोशमानाः परस्परम् । विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ॥५२॥

इत्यार्थे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे सुभालिघधो नाम सप्तविंशः सर्गः


अष्टाविंशः सर्गः

जयन्तापवाहनम्

सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । स्वसैन्यं विद्रुतं चापि लक्षयित्वादितं सुरैः ॥१॥
ततः स बलवान् क्रुद्धो रावणस्य सुतस्तदा। निवर्त्य राक्षसान् सर्वान् मेघनादो व्यवस्थितः ॥२॥
सुरथेनाग्निवर्णेन कामगेन महारथः । अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥३॥
ततः प्रविशतम्तम्य विविधायुधधारिणः । विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥४॥
न बभृव तदा कश्चिधुयुत्सोरस्य संम्मुखे । सर्वानाविध्य वित्रस्तांस्ततः शक्रोऽब्रवीत् सुरान् ॥५॥
न मेतव्यं न गन्तव्यं निवर्तध्वं रण सुराः । एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥६॥
ततः शक्रसुतो देवो जयन्त इति विश्रुतः । रथेनाद्भुतकल्पेन संग्रामे सोऽभ्यवर्तत ॥७॥
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुनम् । रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥८॥
तेषां युद्धं समभवत् सदृशं देवरक्षसाम् । महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥९॥
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः । सारथौ पातयामास शरान् कनकभूषणान् ॥१०॥
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् । तं चापि रावणिः क्रुद्धः समन्तात् प्रत्यविध्यत ॥११॥
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः । रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥१२॥
ततो नानाप्रहरणाञ्छितधारान् महस्रशः । पातयामास संक्रुद्धः सुरसैन्येषु रावणिः ॥१३॥
शननीमुसलपासगदाखड्गपरश्वधान् । महान्ति गिरिशृङ्गाणि पानयामाम रावणिः ॥१४॥
ततः प्रव्यथिता लोकाः संजज्ञे च नमो महत् । तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥१५॥
ततस्तद्देवतबललं समन्तात्तं शचीसुनम् । बहुप्रकारमस्वथमभवच्छरपीडितम् ॥१६॥
नाभ्यजानन्त चान्योन्यं रक्षो वा देवताथवा । तत्र तत्र विपर्यस्तं समन्तात् परिधावति ॥१७॥
देवा देवान्निजध्नुस्ते राक्षसा राक्षसांस्तथा । संमूढास्तमसाच्छन्ना व्यद्रवन्नपरे तदा॥१८॥
एतस्मिन्नन्नरे वीर: पुलोमा नाम वीर्यवान् । दैत्येन्द्रस्तेन संगृह्य शचीपुत्रोऽपवाहितः ॥।१९॥
संगृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा । आर्यकः स हि तस्यासीत् पुलोमा येन सा शची ॥२०॥
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः । अप्रहृष्टास्ततः सर्वा व्यथिताः संप्रदुद्रुवुः ॥२१॥
रावणिस्त्वथ संकुद्धो बलैः परिवृतः स्वकैः । अभ्यधावत देवांस्तान् मुमोच च महास्वनम् ॥२२॥
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् । मातलिं चाह देवेशो स्थः समुपनीयताम् ॥२३॥