पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८३
षविंशः सर्गः


भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् । एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिः ॥२८॥
प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः । अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ॥२९॥
तद्धर्मतः स्नुषा तेऽहं तत्त्वमेव ब्रवीमि ते । अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं' स्थिताम् ॥३०॥
रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा। सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः ॥३१॥
बाढमित्येव सा रम्भा प्राह गवणमुत्तरम् । धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव ॥३२॥
पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते। विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥३३॥
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् । क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥३४॥
तस्यास्मि कृतसंकेता लोकपालसुतम्य वै । तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ॥३५॥
तथा तस्य हि नन्यस्य भावो मां प्रति तिष्ठति । तेन सत्येन मां राजन् मोक्तुमर्हम्यरिन्दम ॥३६॥
स हि तिष्ठति धर्मात्मा मां प्रतीक्षन् समुत्सुकः । तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥३६॥
सद्भिराचरितं मार्गं गच्छ राक्षसपुङ्गव । माननीयो मम त्वं हि पालनीया तथास्मि ते ॥३८॥
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् । स्नुषास्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ॥३९॥
एवमुक्तो दशग्रीवः सुराणां शाश्वती मता। पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥४०॥
एवमुक्त्वा स ताम् रक्षो निवेश्य च शिलानले । कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥४१॥
सा विभुक्ता ततो रम्भा भ्रष्टमाल्याविभूषणा। गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ॥ ४२॥
लुलिताकुलकेशान्ता करवेपितपल्लवा । पवनेनाव तब लता कुसुमशालिनी ॥४३॥
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः । नलकूबरमासाद्य पादयोर्निपपात है ॥४४॥
तदवस्थां च तां दृष्ट्वा महात्मा नलकृबरः । अब्रवीत् किमिदं भद्रे पादयोः पतितासि मे ॥४५॥
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः । तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ॥४६॥
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् । तेन सैन्यसहायेन निशेयं परिणामिता ॥४७॥
आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिंदम । गृहीता तेन पृष्टास्मि कस्य त्वमिति रक्षसा॥४८॥
मया तु सर्वं यत् सत्यं तस्मै सर्वं निवेदितम् । काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥४९॥
याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो । तन् सर्वं पृष्ठतः कृत्वा बलातेमनास्मि धर्षिता ॥ ५०॥
एवं त्वमपराधं मे क्षन्तुमर्हसि सुत्रत । न हि तुल्यबलं सौम्य स्त्रियाश्च पुरुषस्य च ॥५१॥
एतच्छ्रुन्वा तु संक्रुद्धस्तदा वैश्रवणात्मजः । घर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह ॥५२॥
तस्य तत् कर्म विज्ञाय तदा वैश्रवणात्मजः | मुहूर्तात् क्रोधताम्राक्षस्तोयं जग्राह पाणिना ॥५३॥
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि । उत्ससर्ज यथाशायं राक्षसेन्द्राय दारुणम् ॥५४॥
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता । तस्मात् स युवतीमन्यां नाकामामुपयास्यति ॥५५॥
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् । मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥५६॥
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ ५७॥