पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८२
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

षडविंशः सर्गः

नलकूबरशाप:

स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अम्तं प्राप्ते दिनकरे निवास समरोचयत् ॥१॥
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि । प्रसुप्तं सुमहत् सैन्यं नानाप्रहरणायुधम् ॥२॥
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि । स ददर्श गुणांस्तत्र चन्द्रपादसुशोभितान् ॥३॥
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा । पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥४॥
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा 1 चृतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः ॥५॥
तगरैर्नारिकेलैश्च प्रियालपनसैस्तथा । आरग्वधै स्तमालैश्च प्रियालबकुलैरपि ॥६॥
एतैरन्यैश्च तरुभिरुद्भासिनयनान्तरे । किंनरा मदनेनार्ता रक्ता मधुरकण्टिनः ॥७॥
समं संप्रजगुर्यत्र मनस्तुष्टिविवर्धनम् । विद्याधारा मदक्षीबा मदरक्तान्तलोचनाः ॥८॥
योषिद्भिः सह संक्रान्ताश्चि क्रीडुहृषुश्च वै । घण्टानामिव संनादः शुश्रुवे मधुरम्बरः ॥९॥
अप्सरोगणसङ्घानां गायतां धनदालये। पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः॥१०॥
शैलं तं वासयन्तीव मधुमाधवगन्धिनः । मधुपुप्परजःपृक्तं गन्धमादाय पुष्कलम् ॥११॥
प्रववौ वर्धयन् कामं रावणस्य सुखोऽनिलः । गेयात पुष्पसमृद्धया च शैत्याद्वायोगिरेगुणात् १२॥
प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च । रावणः सुमहावीर्यः कामस्य वशमागतः ॥१३॥
विनिश्वस्य विनिश्चम्य शशिनं समवैक्षत । एतम्मिन्नन्तरे तन्न दिव्याभरणभूषिता ॥१४॥
सर्वाप्सरोवरा रम्भा दिव्यपुप्पविभृषिना । दिन्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धना ॥१५॥
दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना । चक्षुमनोहर पीनं मेवलादामभूषितम् ॥१६॥
समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् । कृतैर्विशेषकैरार्दैः पडर्तुकुसुमोद्धवैः ॥१७॥
बभावन्यतमेव श्री: कान्निश्रीद्युतिकीर्तिभिः । नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता ॥१८॥
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे । ऊ करिकराकारौ करौ पल्लवकोमलौ ॥१९॥
सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता । तां समुत्थाय गच्छन्ती कामबाणवशं गतः ॥२०॥
करे गृहीत्वा लज्जन्तीं स्मयमानोऽभ्यभाषत । क गच्छसि वरारोहे का मिद्धि भजमे स्वयम् ॥२१॥
कम्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते । त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ॥२२॥
सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति । स्वर्णकुम्भनिभी पीनौ शुभौ भीरु निरन्तरौ ॥ २३॥
कस्योरःस्खलसंस्पर्शं दास्यतस्ते कुचाविमौ । सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ॥२४॥
अध्यारोहति कस्तेऽद्य जघनं स्वर्गरूपिणम् । मद्विशिष्टः पुमान् कोऽद्य शक्रो विष्णुरथाश्विनौ ॥२५॥
मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् । विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ॥२६॥
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते । तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः ॥२७॥