पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
व्
 

यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । तदेतत् कर्मणी ह्यस्य फलं पापस्य दुर्मते ॥२८॥
अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते। विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः ॥२९॥
दौरात्म्येनात्मनोद्धू तस्तप्ताम्भा इव सागरः । ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ॥३०॥
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः । भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः॥३१॥
वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः । अद्य तं समरे हत्या मधु रावणनिर्भयम् ॥३२॥
सुरलोकं गमिष्यामि युद्धाकाङ्क्षी सुहृद्वृतः । अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् ॥३३॥।
नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् । इन्द्रजित्त्वग्रजित् सैन्यात् सैनिकान् परिगृह्य च ॥३४॥
जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः । विभीषणश्च धर्मात्मा लङ्कायां धर्ममाचरत् ॥३५॥
शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति । खरैरुष्ठ्रैर्यैर्दीप्तैः शिंशुमारैर्होरगैः ॥३६॥
राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् । दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ॥३७॥
रावणं प्रेक्ष्य गच्छन्तमन्यगच्छन् हि पृष्ठतः । स तु गत्वा मधुपुरं प्रविश्य च दशाननः ॥३८॥
न ददर्श मधुं तत्र भगिना तत्र दृष्टवान् । सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ॥३९॥
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा । तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ॥४०॥
रावणो राक्षसश्रेष्ठः किं चापि करवाणि तं । साब्रवीद्यदि ने राजन् प्रसन्नत्वं महाभुज ॥ ४१॥
भर्तारं न ममेहाद्य हन्तुमर्हसि मानद । न हीदृशं भयं किंचित् कुलस्त्रीणाभिहोच्यते ॥ ४२॥
भयानामपि सर्वेषां वैधव्यं व्यसनं महत् । सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ॥४३॥
त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् । रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संन्थिताम् ॥ ४४॥
क्व चासो तव भर्ता चै मम शीघ्रं निवेद्यताम् । स तेन गमिष्यामि सुरलोकं जयाय हि ॥४५॥
तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात । इत्युक्ता सा समुन्थाप्य प्रसुप्तं तं निशाचरम् ॥४६॥
अब्रवीत संप्रहृष्टेव राक्षसी सा पतिं वचः । एष प्राप्तो दशग्रीवा मम भ्राता महाबल ॥४७॥
सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च । तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ॥४८॥
स्निग्धम्य भजमानस्य युक्तमर्थाय कल्पितुम् । तस्तास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥४९॥
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः । पूजयामास धर्मेण रावणं राक्षसाधिपम् ॥५०॥
प्राप्य पूजां दशग्रीवो मधुवेश्मनि वीर्यवान् । तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥५१॥
ततः कैलासमासाद्य शैलं वैश्रवणालयम् । राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ॥५२॥


इत्यार्षे श्रीमद्रामायणे वास्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे मधुवधवारणं नाम पञ्चविंशः सर्गः