पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम । ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥ ११
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय । रक्ष सर्वानिमाँल्लोकानालोकं कर्तुमर्हसि ॥ १२
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः । बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ।। १३
धारयिष्याम्यहं तेजस्तेजस्येव सहोमया । त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ।। १४
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् । धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ।। १५
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् । यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति ।। १६
एवमुक्तः सुरपतिः प्रमुमोच महीतले । तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ १७
ततो देवाः सगन्धर्वाः पुनरूचुर्हताशनम् । प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ।। १८
तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः । दिव्यं शरवणं चैव पावकादित्यसंनिभम् ।। १९
यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः । अथोमां च शिवं चैव देवाः सर्षिगणास्तदा । २०
पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः । अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥ २१
अप्रियस्य कृतस्याद्य फलं प्राप्स्यथ मे सुराः । इत्युक्त्वा सलिलं गृह्य पार्वती भास्करप्रभा ।। २२
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना । यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ।। २३
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ । अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः॥ २४
एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि । अवने नैकरूपा त्वं बहुभार्या भविष्यसि ।। २५
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ।। २६
तान् सर्वान् व्रीडितान् दृष्त्वा सुरान् सुरपतिस्तदा । गमनायोपचक्राम दिशं वरुणपालिताम् ॥ २७
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः । हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥ २८
एष ते विस्तरो राम शैलपुत्र्या निवेदितः । गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥ २९
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे उमामाहात्म्यं नाम षट्त्रिंशः सर्गः
सप्तत्रिंशः सर्गः
कुमारोत्पत्तिः
तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा । सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ १
ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् । प्रणिपत्य सुराः सर्वे सेन्द्राः साग्निपुरोगमाः ॥ २
यो नः सेनापतिर्देव दत्तो भगवता पुरा । स न जातोऽद्य भगवन्नस्मद्वैरिनिबर्हणः ।। ३
तत्पिता भगवान् शर्वो हिमवच्छिखरेऽद्य वै । तपः परममास्थाय तप्यते स्म सहोमया ॥ ४