पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
९७९
चतुर्विंशः सर्गः

एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे। न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः॥१६॥
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः। यद्दुर्बला बलवता भर्तारो रावणेन नः ॥१७॥
सूर्येणोदयता काले नक्षत्राणीव नाशिताः । अहो सुबलवद्रक्षो वधोपायेषु रज्यते॥१८॥
अहो दुर्वृत्तमास्थाय नात्मानं वै जुगुप्सते । सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः॥१९॥
इदं त्वसदृशं कर्म परदाराभिमर्शनम् । यस्मादेष परक्यासु रमते राक्षसाधमः ॥२०॥
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् । सतीभिर्वरनारीभिरेवं वाक्येऽभ्युदीरिते ॥२१॥
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च । शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः॥२२॥
पतिव्रताभिः साध्वीभिर्बभूव विमना इव । एवं विलपितं तासां शृण्वन् राक्षसपुङ्गवः॥२३॥
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः । एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ॥२४॥
सहसा पतिता भूमौ भगिनी रावणस्वसा । तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ॥२५॥
अब्रवीत् किमिदं भद्रे वक्तुकामासि मे द्रुनम् । सा बाप्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत्॥२६॥
कृतास्मि विधवा गजस्त्वया बलवता बलात् । एते राजंस्त्वया वीरा दैत्या विनिहता रणे ॥२७॥
कालकेया इति ख्यानाः सहस्राणि चतुर्दश । प्राणेभ्योऽपि गरीयान् मे तत्र भर्ता महाबलः ॥२८॥
सोऽपि त्वया हतस्ता रिपुणा भातृगृध्नुना । त्वयास्मि निहता राजन् स्वयमेव हि बन्धुना ॥२९॥
राजन् वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यम् । ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ॥३०॥
स त्वया निहतो युद्धे स्वयमेव न लजसे । एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ॥३१॥
अब्रवीत सान्त्वयित्वा तां सामपूर्वमिदं वचः। अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ॥३२॥
दानमानप्रसादैस्त्वाम् तोषयिष्यामि यत्नतः । युद्धप्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान् ॥३३॥
नावगच्छामि युद्धेषु स्वान् परान् वाप्यहं शुभे । जामातरं न जाने म प्रहरन् युद्धदुर्मदः ॥३४॥
तेनासौ निहतः संख्ये मया भर्ता तव स्वसः । अस्मिन् काले तु यत्प्राप्तं तत्करिष्यामि ते हितम्॥३५॥
भातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वनः । चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ॥३६॥
प्रभुः प्रयाणे दाने च राक्षसानां महाबलः । तत्र मातृष्यसेयस्ते भ्रातायं वै खरः प्रभुः ॥३७॥
भविष्यति तवादेशं सदा कुर्वन्निशाचरः । शीघ्रं गच्छत्वयं वीरो दण्डकान् परिरक्षितुम्॥३८॥
दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः । तत्र ते वचनं शूरः करिष्यति सदा खरः ॥३९॥
रक्षसां कामरूपाणां प्रभुरेष भविष्यति । एवमुक्ता दशग्रीवः सैन्यमस्यादिदेश ह ॥४०॥
चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् । स तैः परिवृतः सर्वै राक्षसघोरदर्शनैः ॥४१॥
अगच्छत खरः शीघ्रं दण्डकानकुतोभयः । स तत्र कारयामास राज्यं निहतकण्टकम् ॥४२॥
सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ॥४३॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां सैहितायाम्

उत्तरकाण्डे खरशूर्पणखादण्डकानिवासादेशो नाम चतुर्विशः सर्ग: