पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चोदितो रामवाक्येन विश्वामित्रो महामुनिः । वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे।। १२
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् । तस्य कन्याद्वयं जातं रूपेणाप्रतिमं भुवि ॥ १३
या मेरुदुहिता राम तयोर्माता सुमध्यमा । मेना मनोरमा देवी पत्नी हिमवतः प्रिया ।। १४
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता । उमा नाम द्वितीयाभूत्कन्या तस्यैव राघवे ।।१५
अथ ज्येष्ठं सुराः सर्वे देवकार्यचिकीर्षया । शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ।। १६
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् । स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ।। १७
प्रतिगृह्य ततो देवास्त्रैलोक्यहितकारिणः । गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ।। १८
या चान्या शैलदुहिता कन्यासीद्रघुनन्दन । उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ १९
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् । रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ २०
एते ते शैलराजस्य मुते लोकनमस्कृते । गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ।। २१
एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी। खं गता प्रथमं तात गतिं गतिमतां वर ।। २२
सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा । सुरलोकं समारूढा विपापा जलवाहिनी ।। २३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायां
बालकाण्डे उमागङ्गावृत्तान्तसङ्क्षेपो नाम पञ्चत्रिंश: सर्ग:
षट्त्रिंशः सर्गः
उमामाहात्म्यम्
उक्तवाक्ये मुनी तस्मिन्नुभौ राघवलक्ष्मणौ । प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुंगवम् ।। १
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ॥ २
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम् । त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ।। ३
कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा । त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ॥ ४
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः । निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ।। ५
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः । दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ।। ६
तस्य संक्रीडमानस्य महादेवस्य धीमतः । शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥ ७
न चापि तनयो राम तस्यामासीत् परंतप । ततो देवाः समुद्विग्नाः पितामहपुरोगमाः ।। ८
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यते । अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥ ९
देव देव महादेव लोकस्यास्य हिते रत । सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥